________________
सूत्र-६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ बलिनोऽपि पुरुषाः क्षणेन विबलतामुपयान्तो दृश्यन्ते, निर्बलाश्च बलवन्तः संस्कारवशादाशु जायन्ते, तथा व्याधिजरामृत्युषूद्भूतबलेषु चक्रवर्तिहरिनरपतयोऽपि सीदन्ति ससुराः, किमुतान्ये पृथग्जना इति वीर्यमदादुपरमः श्रेयान्, इतिशब्दो मदस्थानानामियत्तामावेदयति, मौलान्येतावन्ति, सूक्ष्मप्रभेदास्त्वेषां भूयांस इति । __ सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नुपसंहरतिएभिर्जात्यादिभिरित्यादि उक्तलक्षणैर्जात्यादिभिर्मत्तः-अहंमानी परनिन्दायामात्मप्रशंसायां च सक्तस्तीवेणातिशयवताऽहंकारेणोपहतबुद्धिमलीमसितधिषण इह-परलोकानुभवनीयं कर्मोपचिनोति बध्नाति अकुशलं पापं अशुभफलं, अकुशलमपि बद्धं कदाचित् कुशलफलतया परिणमत इत्यशुभफलग्रहणं, सम्यग्दर्शनं मुक्तिसाधनं श्रेयस्तच्चाऽऽख्यायमानमपि न प्रतिपद्यते न श्रद्धत्ते, यत एतदेवं तस्मादेषां मदस्थानानां मार्दवं निग्राहकं तन्निग्रहाच्च धर्म इति ।
सम्प्रति मायाप्रतिपक्षं आर्जवं लक्षयति, भावविशुद्धिरिति भावाः कायवाड्मनसानि तेषां विशुद्धिः अवक्रता शाठ्यविरहितत्वं, मनसोऽपि परिणामः कायवाचोरुपचर्यते, तद्वृत्तानुवृत्तेः, मायावी तु सर्वातिसन्धानपरतया सर्वाभिशङ्कनीयः कपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति अविसंवादनमविनाशनमहिंसनमित्यनर्थान्तरं, विनाशनं परिणामान्तरापादनं विसंवादनमुच्यते, न विसंवादनमविसंवादनं परिणामान्तरानापादनमिति, तमेव योगानामविपर्यासं दर्शयति-ऋजुभाव इत्यादिना उपधिनिकृत्योर्विशेषः- उपधिश्छद्म च्छादनं स्वाभिसन्धेः, निकारो निकृतिः परिभवपरबुद्धिद्वारेण स्वाभिसन्धेः साफल्यापादनं, तस्मादेवंविधमार्जवं धर्मः ।
अधुना लोभप्रतिपक्षं शौचलक्षणमाविर्भावयन्नाह- 'अलोभः' इति, अलोभः शौचलक्षणं लोभस्तु भावतः परमार्थतोऽभिष्वङ्गश्चेतनाचेतन