________________
૪૨
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૯ સૂત્ર मुखवसनाच्छादितवदनविवरः पाणितलस्थगितमुखो वा, मितमिति यावता विवक्षितकार्यप्रतिपत्तिः तावदेव, न त्वपरिमितं, याचनमभीक्ष्णमवग्रहादिविषयं प्रच्छनमुत्पन्नसंदेहस्य मार्गादिसूत्रार्थविषयं प्रश्नव्याकरणमन्येन पृष्टः प्रवचनाविरुद्धं व्याकरोतीति, तदेवमनृतपरुषाद्यपोह्य तद्विपर्ययेण सत्यमन्वेष्टव्यमिति, याचनाप्रच्छनप्रश्नव्याकरणेषु च त्रिष्वेव प्राधान्येन साधोर्वाग् व्यापारो, नान्यत्र, निष्प्रयोजनत्वात्, स्वाध्यायवाचनाद्यपि न कर्त्तव्यमिति चेत्, तन्न, आत्मसंस्कारार्थो वाचनादिर्यत्नः, संस्कृतात्मा च त्रिष्वेव याचनादिषु व्याप्रियत इति, अथवा मुमुक्षोर्मुक्त्यर्थे यत्ने यदुपकारकं वचनं न तस्यास्ति निषेध इति ।
सम्प्रति संयमोऽभिधीयते योगनिग्रहः संयमः योगा मनोवाक्कायलक्षणास्तेषां निग्रहः प्रवचनोक्तविधिना नियमः, एवमेव गन्तव्यं एवं स्थातव्यं एवं चिन्तयितव्यमिति, एष संयमोऽभिधीयते, स सप्तदशविधः इत्यादि, स इत्थंरूपः संयमः सप्तदशप्रकारो भवति, तद्यथेत्यनेन तान् प्रकारानभिमुखीकरोति, पृथिवीकायिकसंयमः पृथिवी कायः-शरीरं येषां ते पृथिवीकायिकाः, एवं चेन्मत्वर्थीयाभावः, उच्यते, पृथिवीकायशब्दस्य जातिशब्दत्वाद्भवत्येव मत्वर्थीयः, कृष्णसर्पवान् वल्मीक इति यथा, अथवा ज्ञापकाद्भवति 'इङ्धार्योः शत्रकृच्छिणि' (पा.अ.३ पा.२ सू.१३०) इति, पृथिवीकायिकजातौ जातेर्वा संयमः-सम्यग् यम:उपरमो निर्वृत्तिरित्यर्थः, ये जीवाः पृथिवीशरीरास्तेषां संघट्टपरितापव्यापत्तीर्मनोवाक्कायैः कृतकारितानुमतिभिश्च परिहरतीत्यर्थः, एवं सर्वत्र, यावत् पञ्चेन्द्रियसंयमः, प्रेक्ष्यसंयम इत्यत्र क्रियापदाध्याहारः, प्रेक्ष्य क्रियामाचरन् संयमेन युज्यते, प्रेक्ष्येति चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं पश्चादूर्ध्वनिषद्यात्वगवर्तनस्थानानि विदधातीत्येवमाचरतः संयमो भवति, उपेक्ष्यसंयमः व्यापा-व्यापार्य्य चेत्यर्थः, एवं च संयमो भवति, साधून् व्यापारयतः प्रवचनविहितासु क्रियासु