SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सूत्र-६ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ उ७ रूपं शरीरावयवानां सन्निवेशविशेषो लावण्ययुक्तिस्तेनापि कश्चिन् माद्यति, तत्प्रतिषेधस्त्वाद्युत्तरकारणालोचनाद्भवति, तत्राद्यं कारणं मातुरोजः पितुः शुक्र, उत्तरकारणं जननीप्रशस्तग्रस्तानपानरसाभ्यवहारो रसहरण्येत्येवमामृषतो न प्रतिभाति रूपमदः, त्वग्मांसास्थिपुरीषपूयाद्यशुभभावत्वात् । ऐश्वर्यमदो धनधान्यसम्पत्प्रभवः धनं रजतचामीकरमरकतादि गोमहिष्यजाविकादि च व्रीहितिलमुद्गमाषगोधूमयवकङ्ग्वादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्षमाणेन क्लेशकारिणा अकाण्डभगुरेणायत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत । वाचकेन त्वेतदेव बलसंज्ञया प्रशमरतावुपात्तं, तच्च त्रिधाशरीरस्वजनद्रव्यबलं, इहैश्वर्यग्रहणात् स्वजनद्रव्यबलपरिग्रहः शरीरबलं तु वीर्यग्रहणात् पृथग्गृहीतं, वीर्यबलस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं-बुद्धिश्चतुर्विधा औत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी चेति, तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्वे वस्तून्युपनते तत्क्षण एव समासादितोपयतनाऽव्याहतफला भरतरोहकादेरिव भवति, गुर्वादिविनयानुष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकफलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमनकाणहस्तिनीपरिज्ञायिनैमित्तिकस्येव, कर्मजा पुनः धीः साधुकारफला, अनाचार्यजं कर्म, तत्र पुनः पुनरुपयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकातिशायी पाश्चात्यं कर्मोपजायते, सौवर्णिककृषीवलतन्तुवायादेरिव, पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव, यथासम्भवमित्थं लब्धया बुद्ध्या अहमेव बुद्धिमानिति मन्यमानः परिभवति शेषं जनम्, मदसमुद्धतस्य परपरिभवपरिवादात् स्वोत्कर्षाच्चाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy