________________
4
-
६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ किञ्चान्यदालम्बनं क्षन्तुमनसा विधेयमित्याह-क्षमागुणांश्चेत्यादि, क्षमाया गुणाः-ज्ञानादिवृद्धिहेतवो अनायासादयः तांश्चानुचिन्त्य क्षमामेव विदधीत, आयासो-दुःखहेतु-श्चेष्टाविशेषः प्रहरणसहायान्वेषणसंरम्भावेशारुणविलोचनस्वेदद्रव-प्रवाहाकुलप्रहारवेदनादिकस्तद्विपरीतोऽनायासः-स्वस्थता, आदिग्रहणात्त-त्प्रत्ययकर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायता परसमाधानोत्पादनं तन्निमित्तप्रसन्नान्तरात्मत्वमित्यादयः, इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमेवेति क्षमाधर्मः ।
मृदुः-अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवं, तल्लक्षणप्रदर्शनायाहनीचैर्वृत्त्यनुत्सेकाविति नीचैर्वृत्तिः-अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपं नीचैर्वर्त्तनं उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः संसारस्वभावं भावयतोऽसमञ्जसं विशिष्टजातिकुलादिसम्पदः कदाचिदेवासाद्यन्ते कदाचिद्धीनाः, ततश्च न गर्वपरिणाममास्कन्दतीत्येतदेवाह-मदनिग्रहो मानविघातश्चेत्यर्थः, माद्यत्यनेनेति मदो-जात्यादिमदः तस्य निग्रहः-उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं, मानविघातश्चेति मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुःष्यन्ति जात्यादिमदास्तस्य विघातो-मूलोत्कर्त्तनं इत्यर्थः, तद्घाते चावश्यं भावी जात्यादिमदविनाशः, तन्निरूपणार्थमाह-तत्र मानस्येत्यादि, तत्रेति वाक्योपन्यासार्थः, स्थानानि-भेदाः इमानीति प्रत्यक्षीकरोति, परस्यानुभवमुत्पादयति, तद्यथेत्यादिनोदाहरति, जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि,
तत्र जाति:-पित्रन्वयः प्रख्याततमवंशता जातिः-जन्म आत्मलाभः पञ्चेन्द्रियादिलक्षणा वा तया गर्वमुद्वहति, विशिष्टजातिरहमिति, विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलभुजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्त इति न श्रेयो जातिमदः,
मात्रन्वयः कुलमुग्रभोजादि वा, तेनापि मदो न युक्त एव, जात्यादिभावनावदिति,