________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
किञ्चान्यदालम्बनं सहिष्णुत्वे इत्याह- क्रोधदोषचिन्तनाच्चेत्यादि, कुद्धः - कषायपरिणतो विद्वेषी कर्म्म बध्नाति परं वा निहन्ति व्यापादयति वा, ततः प्राणातिपातनिवृत्तिव्रतलोपः स्यात्, गुरून् आसादयेद्अधिक्षिपेदतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी, क्रुद्धो वा भ्रष्टस्मृतिको मृषापि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाषण्डिनीषु ब्रह्मव्रतभङ्गमप्यासेवते, तथा प्रद्विष्टः सहायबुद्ध्या गृहस्थेष्वविरतेषु मूर्च्छामपि कुर्यात्, आदिग्रहणादुत्तरगुणभङ्गमप्याचरेत्, करडकवत्, भक्तालाभे मासक्षपणकवत् ।
किञ्चान्यदालम्बनं क्षान्तौ इत्याह- बालस्वभावचिन्तनाच्च बालशब्दोऽविधेयवचनः, न वयोऽवस्थावाची, तथैव चाह भाष्यकृद्- बालो मूढो निर्विवेचक इत्यर्थः, तस्य चैष स्वभावो मूढत्वाद्यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणं अतस्तच्चिन्तनात् क्षमितव्यमेव, चशब्दः समुच्चयार्थः, उत्तरोत्तररक्षार्थमिति, परोक्षाक्रोशात् प्रत्यक्षाक्रोशनमुत्तरं, प्रत्यक्षाकोशात्ताडनं, ताडनान्मारणं, मारणाद्धर्मभ्रंशनं, परोक्षाक्रोशानां क्षमया प्रत्यक्षाक्रोशनं रक्षितं भवति, एवमुत्तरत्रापि, अस्ति हि कियदपि मन्दाक्षमाक्रोष्टुर्मयि यतः परोक्षमाक्रोशति न प्रत्यक्षं दिष्ट्येति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा, अयमेव च प्रसादो मम, इदमेव वा साधु यन्मां परोक्षमाक्रोशति, न प्रत्यक्षमित्येष एव लाभ:, लौकिकः खल्वयमाभाणक:-अयमेव मे लाभ इत्येवं सर्वत्र व्याख्या
किञ्चान्यदालम्बनमाश्रित्य क्षमा कार्या ?, तदभिधीयतेस्वकृतकर्म्मफलाभ्यागमाच्च जन्मान्तरेणोपात्तस्य कर्म्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति च परः, स तु निमित्तमात्रं कर्म्मोदयस्य, यस्माद् द्रव्यक्षेत्रकालभावापेक्षः कर्म्मणामुदयो भगवद्भिराख्यातः, स्वकृतं च कर्म्मानुभवितव्यमवश्यंतया निकाचितं तपसा वा क्षपणीयमिति क्षमितव्यमेव ।
सूत्र
૩૫