________________
३४ શ્રી તાર્યાધિગમસૂત્ર અધ્યાય-૯
सूत्र-६ गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति, क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, समुदिता एवोत्तमो धर्मः, एष च क्षमादिसमुदायः संवरं धारयति-करोति यतस्ततो धर्मः, संवरार्थं चात्मना धार्यते इति धर्मः, एतावन्ति धर्माङ्गानि तन्निष्पादितश्च धर्म इति दर्शयति एवमेव दशप्रकारो यतिधर्मः, उत्तमा गुणाः-मूलोत्तराख्यास्तेषां प्रकर्षः-पराकाष्ठा तद्युक्तोऽनगाराणां धर्मो भवति, तत्र क्षमेत्यादिना विवृणोति उत्तमत्वं, क्षति क्षमणं-सहनपरिणाम आत्मनः शक्तिमतः अशक्तस्य वा प्रतीकारानुष्ठाने, तां पर्यायशब्दैराचष्टे तितिक्षा क्षान्तिः सहिष्णुत्वं सहनशीलत्वं क्रोधनिग्रहःक्रोधस्योदयनिरोधः उदितस्य वा विवेकबलेन निष्फलतापादनम्, एवमेतेऽनर्थान्तरवाचिनः शब्दाः क्षमामेवाभिदधति ।।
भाष्यकारस्तु स्वयमेवाशङ्क्याह एवम्, तत् कथं क्षमितव्यमिति, भावे कृत्यः, क्षमापि भावः, अतः सामान्यमात्रमाश्रित्य तच्छब्दयोगः, वाक्यार्थस्तु सा क्षमा कथं केन प्रकारेण कर्त्तव्या?, एवं मन्यते-दुर्भेद्यः क्रोधवेगो मदकलस्येव करिणः, चेत्शब्द आशङ्काव्युदासचिकीर्षायां, आह-उच्यत इति क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् भावः सद्भावोऽस्तित्वमभावो-नास्तित्वं, चिन्तनात् उभयथापि क्रोधो न घटते इति, येन निमित्तेन परप्रयुक्तेन मम कोप उत्पद्यते तन्निमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः ?, यदि सत्यमस्ति एतन्निमित्तं किं कोपेन ?, कृतं खलु मयेदं, नाणीयोऽपि परस्यात्रागः सद्भूतमर्थं प्रकाशयतः, स्वकृतं हि दुश्चरितं लपत्येवं चिन्तयेत्, एतदेवाह भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः, किमत्रासौ मिथ्या ब्रवीति इति क्षमितव्यं, तथा अभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नैते विद्यन्ते-अभाव एव, परस्त्वज्ञानादेवमभिधत्ते, अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः, एवं च निरपराधमात्मानं अवेत्य क्षन्तव्यमेव ।