________________
સૂત્ર-૫૦
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૨૮૫ स्नानादिकं प्रतिसंस्कारं सेवमानस्तच्छील एव भवति, एष चोत्तरगुणभ्रंशकारी, न तु मूलगुणान् विराधयति, यथोक्तमागमे___ "बउसे पुच्छा ?, गोयमा ! णो मूलगुणसेवी, उत्तरगुणपडिसेवए होज्जा, उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा,"
प्रतिसेवनाकुशीलः मूलगुणान्-प्राणातिपातनिवृत्त्यादीन् अविराधयन्अखण्डयन् उत्तरगुणेषु दशसु काञ्चिद्विराधनां, न सर्वां, कदाचिदेव प्रतिसेवत इति, अत्राप्यागमोऽन्यथा अतिदेशकारी
"पडिसेवणाकुसीलो जहा पुलाओ" कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ३ ।
तरन्त्यनेनेति तीर्थ-प्रवचनं प्रथमगणधरो वा तत्र किं कस्यचिदेव तीर्थकृतः तीर्थे पुलाकादयो भवन्त्युत सर्वेषामेव तीर्थकराणामित्याहसर्वे सर्वेषामित्यादि सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति, एके त्वाचार्या इत्यादि, पुलाको बकुशः प्रतिसेवनाकुशीलश्च नित्यं तीर्थ एव, शेषाः कषायकुशीलनिर्ग्रन्थस्नातकास्तीर्थे भवन्ति एते कदाचिद् अतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्ते इति, इदमेव चादेशान्तरमाश्रित्यागममुपलभामहे_ "पुलाए णं भंते ! किं तित्थे होज्जा अतित्थे होज्जा ?, गोयमा ! तित्थे होज्जा, णो अतित्थे । एवं बउसपडिसेवणाकुसीलावि, कसायकुसीले तित्थे वा होज्जा अतित्थे वा होज्जा, एवं नियंठसिणायगावि" ४॥
लिङ्गं द्विविधमित्यादि लिङ्ग-चिह्न मुमुक्षोः, तच्च द्विधा द्रव्यभावभेदात्, तत्र द्रव्यलिङ्गं रजोहरणमुखवस्त्रिकादि लिङ्ग, भावलिङ्गं ज्ञानदर्शनचारित्राणि, भावलिङ्गं प्रतीत्य निसृत्य पञ्चापि पुलाकादयो भावलिङ्गे भवन्ति, एवं द्रव्यलिङ्गं प्रतीत्य भाज्याः, कदाचिद्रजोहरणादि भवति कदाचिन्नेति, मरुदेवीप्रभृतीनामिति ५॥