________________
૨૮૪
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૫૦
पुव्वाइं अहिज्जेज्जा, कसायकुसीलनियंठा जहण्णेणं अट्ठ पवयणमायाओ, उक्कोसेणं चउदस पुव्वाइं अहिज्जेज्जा २।"
सम्प्रति प्रतिसेवनामाश्रित्योच्यते-प्रतिसेवना पञ्चानामित्यादि मूलगुणाः प्राणातिपातनिवृत्त्यादयः पञ्च क्षपाभोजनविरतिश्च, तान् परेणाभियुज्यमानः सेवते, पराभियोगादित्यस्यैव व्याख्या बलात्कारेणेति, अथवा परेणाभियुक्तः-प्रेरितो यदा भवति तदा प्रवर्त्तते, न स्वरसत एव, अपरस्तु राजादिभिर्बलात्कारेण प्रवर्त्यते, तदेवमन्यतमं मूलगुणं प्रतिसेवमानः पुलाको भवति, मैथुनमित्येके, अपरे व्याचक्षते-मैथुनमेवेत्थं पराभियोगात् बलात्कारेण वा सेवां कार्यते स पुलाकः, न प्राणातिपातादि सेवमानः, अत्राप्यन्यथैवागमः
"पुलाए णं भंते ! किं पडिसेवए होज्जा अपडिसेवए होज्जा ?, गोयमा ! पडिसेवए, णोऽपडिसेवए, जइ पडिसेवए किं मूलगुणपडिसेवए उत्तरगुणपडिसेवए ?, मूलगुणपडिसेवए य उत्तरगुणपडिसेवए अ, मूलगुणे पडिसेवमाणे पंचण्हं महव्वयाणं अण्णयरं पडिसेवेज्जा, उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा"
बकुशो द्वेधा-उपकरणशरीरभेदात्, तत्र-तयोरुपकरणबकुशः उपकरणे वस्त्रपात्रादौ अभिष्वक्तचित्तः प्रतिबद्धस्नेहः समुपजाततोषः वस्त्रं विविधं देशभेदेन पौण्ड्रवर्धनककाशाकुलकादि पात्रमपि पूरिकगन्धारकप्रतिग्रहकादि विचित्रं रक्तपीतसितबिन्दुपट्टकादिप्रचितं महाधनं महामूल्यं एवमादिना उपकरणेन युक्तो, ममेदं अहमस्य स्वामीत्युपजातमूर्च्छ:, पर्याप्तोपकरणोऽपि भूयो बहुविशेषोपकरणाकाङ्क्षायुक्तः बहुविशेषो यत्र मृदुदृढश्लक्ष्णघननिचितरुचिरवर्णादिस्तादृशोपकरणे लब्धव्ये जाताकाङ्क्षो-जाताभिलाषः, सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबन्धघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः, शरीरबकुशः शरीरादिषु आसक्तचित्तः, विभूषार्थं तस्य शरीरस्याभ्यञ्जनोद्वर्त्तन