________________
૨૮૬
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૫૦ लेश्याः पूर्वोक्तनिर्वचना उत्तराः पारमर्षक्रमप्रामाण्यात् पुलाकस्य तैजसीपद्मशुक्लनामानस्तिस्रो भवन्ति, बकुशप्रतिसेवनाकुशीलयोः सर्वाः, कियन्त्यः सर्वाः ?, षडपीत्याह, परिहारविशुद्धिसंयमप्राप्तस्य कषायकुशीलस्य एता एव तिस्रः, सूक्ष्मसम्परायसंयमप्राप्तस्य कषायकुशीलस्य तथा निर्ग्रन्थस्य सयोगस्नातकस्य च त्रयाणामप्येका शुक्लैव, केवलाअन्यलेश्यानिरपेक्षेति । शैलेशीप्रतिपन्नस्त्वयोगकेवली नियमेनालेश्य एव भवति ६॥
उपपात इत्युपपत्तिर्जन्मान्तरप्राप्तिः, पूर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिरित्यर्थः, सहस्रारेऽष्टादशसागरोपमस्थितिरुत्कृष्टा, तत्र पुलाकस्योत्पत्तिः-जन्म मरणोत्तरकालं, बकुशप्रतिसेवनाकुशीलयोरच्युते द्वाविंशतिसागरोपमस्थितिकेषूत्पत्तिः, कषायकुशीलनिर्ग्रन्थयोः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमस्थितिषूत्पत्तिः, सर्वेषां पुलाकादीनां शमितकषायान्तानां प्रथमकल्पे जघन्येन, द्विप्रभृतिरा नवभ्यः पृथक्त्वपरिभाषा, तस्थितिकेषु देवेषूत्पत्तिः, स्नातकस्य निर्वाणस्थानप्राप्तिरेवेति ७॥
स्थानद्वारमधुना चिन्त्यते-असङ्ख्येयानीत्यादि स्थानमित्यध्यवसानस्थानं परिणामस्थानं संयमस्थानमिति पर्यायाः, तत्र यावत् सकषायस्तावत् सङ्क्लेशविशोधयोऽवश्यंभाविन्यः, क्षीणकषायस्य तु विशोधिरेव, न सङ्क्लेशः, तत्र सकषायस्यासङ्ख्येयानि संयमस्थानानि भवन्ति, तत्रैकस्य प्रथमसंयमस्थानस्य पर्यायपरिमाणमिदमागमोक्तं-"सव्वागासपदेसग्गं सव्वागासपदेसेहिं अणंतगुणियं पढमसंजमठाणं" भवति, का पुनर्भावना ?, उच्यते"सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्च दोण्हवि पडिसेहणं कुज्जा ॥१॥ सव्वदव्वाणि जमेस सव्वदव्वाण पज्जवा जे अ । सव्वाण अवावण्णा तिकालविसयंमि जे भणिया ॥२॥