________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि
चारित्रम् ॥९-१८॥ अनशनावमौदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्या
ऽऽसनकायक्लेशा बाह्यं तपः ॥९-१९॥ प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥९-२०॥ नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्राग् ध्यानात् ॥९-२१॥ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोप
स्थापनानि ॥९-२२॥ ज्ञानदर्शनचारित्रोपचाराः ॥९-२३॥ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानाम्
॥९-२४॥ वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ॥९-२५॥ बाह्याभ्यन्तरोपध्योः ॥९-२६॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥९-२७॥ आमुहूर्तात् ॥९-२८॥ आर्त्तरौद्रधर्म्यशुक्लानि ॥९-२९॥ परे मोक्षहेतू ॥९-३०॥ आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥९-३१॥ वेदनायाश्च ॥९-३२॥ विपरीतं मनोज्ञानां ॥९-३३॥ निदानं च ॥९-३४॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ॥९-३५॥ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्योरौद्रमविरतदेशविरतयोः॥९-३६॥