________________
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૯
નવમો અધ્યાય - आश्रवनिरोधः संवरः ॥९-१॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥९-२॥ तपसा निर्जरा च ॥९-३॥ सम्यग्योगनिग्रहो गुप्तिः ॥९-४॥ ईर्याभाषेषणाऽऽदाननिक्षेपोत्सर्गाः समितयः ॥१-५॥ उत्तमः क्षमा-मार्दवार्जव-शौच-सत्य-संयमतपस्त्यागाकिञ्चन्य-ब्रह्मचर्याणि धर्मः ॥९-६॥ अनित्याशरणसंसारैकत्वान्यत्वाश्रवसंवरनिर्जरालोकबोधिदुर्लभ
धर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥९-७॥ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥९-८॥ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्याशय्यानिषद्याक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि
॥९-९॥ सूक्ष्मसम्परायच्छद्मस्थवीतरागयोश्चतुर्दश ॥९-१०॥ एकादश जिने ॥९-११॥ बादरसम्पराये सर्वे ॥९-१२॥ ज्ञानावरणे प्रज्ञाऽज्ञाने ॥९-१३॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥९-१४॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः
॥९-१५॥ वेदनीये शेषाः ॥९-१६॥ एकादयो भाज्या युगपदेकोनविंशतेः ॥९-१७॥