________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
एकान्यतमयोगानामेकत्ववितर्कं, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियमनिवृत्तीति ॥९-४३॥
ભાષ્યાર્થ— તે જ ચાર પ્રકારનું શુક્લધ્યાન અનુક્રમે ત્રણયોગવાળાને, ત્રણમાંથી કોઇપણ એક યોગવાળાને, કાયયોગવાળાને અને યોગરહિતને હોય છે. તેમાં ત્રણ યોગવાળાને પૃથવિતર્ક ધ્યાન હોય છે. કોઇપણ એક યોગવાળાને એકત્વવિતર્ક ધ્યાન હોય છે. કાયયોગવાળાને સૂક્ષ્મક્રિયાપ્રતિપાતી ધ્યાન હોય છે. અયોગવાળાને(=યોગરહિતને) વ્યુપરતક્રિય અનિવૃત્તિ ધ્યાન હોય છે. (૯-૪૩)
टीका- तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति, तत्राद्यं पृथक्त्ववितर्कं त्रियोगस्य भवति, मनोवाक्काययोगव्यापारवत इत्यर्थः, एकान्यतमयोगानामिति, अन्यतमैकयोगानामेकत्ववितर्क, एकः अन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते कदाचिन्मनोयोगः कदाचिद्वाग्योगः कदाचित् काययोगः इति, काययोगानामिति कायैकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानं भवति, निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति, अयोगानामिति शैलेश्येकावस्थानां ह्रस्वाक्षरपञ्चकोच्चारणसमकालानां मनोवाक्काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति, उक्तं च" यदर्थव्यञ्जने कायवचसी च पृथक्कृतः । मनः संक्रमयत्यात्मा, स विचारोऽभिधीयते ॥१॥ संक्रान्तिरर्थादर्थं यद्, व्यञ्जनाद् व्यञ्जनं तथा । योगाच्च योगमित्येष, विचार इति वा मतः ॥२॥ अर्थादिव पृथक्त्वेन, यद् वितर्कयतीव हि । ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ॥३॥ अविकम्पमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहं ।
तदेकत्ववितर्काख्यं श्रुतज्ञानोपयोगवत् ॥४॥
૨૫૨
,
સૂત્ર-૪૩