________________
સૂત્ર-૨૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૯૯ ઔપચારિક વિનય અનેક પ્રકારનો છે. સમ્યગ્દર્શન-જ્ઞાન-ચારિત્ર વગેરે ગુણોથી અધિક મુનિઓનો અભ્યત્થાન, આસન પ્રદાન, વંદન, અનુગમન વગેરે (ઔપચારિક) વિનય છે. તેનાથી (કર્મ) દૂર કરાય છે એથી विनय छ अथवा ते होयत्यारे (भ) दू२ ४२।५ छेते. विनय. (८-२3)
टीका- ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, एतद्विवरणायाह-विनयश्चतुर्भेद इति, विनयनिर्वचनमुपरि व्याख्यास्यते, तांश्च चतुर्भेदान् नामग्राहमाचष्टे-तद्यथाशब्दस्तदुपन्यासार्थः, ज्ञानविनय इत्यादि तत्र-तेषु चतुर्षु भेदेषु ज्ञानविनयस्तावत् पञ्चविधः मतिज्ञानादिः, आदिग्रहणाच्छूतावधिमनःपर्यायकेवलज्ञानपरिग्रहः, अस्मिन् सति ज्ञानादिपञ्चके भक्तिर्बहुमानो ज्ञानस्वरूपश्रद्धानं च ज्ञानविनयः, श्रुते च विशेष: "काले विणए बहुमाणे उवहाणे" इत्यादि, दर्शनविनयस्त्वेकविध एकप्रकार एव, तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः, तथा अर्हतामर्हत्प्रणीतस्य च धर्मस्याचार्योपाध्यायस्थविरकुलगणसङ्घसाधुसम्भोगानां चानासातना, प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानि च सम्यग्दर्शनविनय इति, चारित्रविनयः पञ्चविधः सामायिकादिः, सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानं श्रद्धानपूर्वकं चानुष्ठानं विधिना च प्ररूपणमित्येष चारित्रविनयः,
औपचारिकविनयोऽनेकविधः उपचरणमुपचारः, श्रद्धापूर्वकं क्रियाविशेषलक्षणो व्यवहारः स प्रयोजनमस्येत्यौपचारिकः, स चानेकप्रकारः, तस्य विषयनिर्देशार्थमाह-सम्यग्दर्शनेत्यादि, सम्यक्त्वज्ञानचरणानि गुणास्तैरभ्यधिका ये मुनयः आदिग्रहणादशविधसामाचारीसम्पत्परिग्रहः तेष्वभ्युत्थानासनप्रदानवन्दनानुगमनादिः अभिमुखमागच्छति गुणाधिके उत्थानम्-आसनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानं तदनन्तरमासनप्रदानं ततो वन्दनप्रतिपत्तिः गच्छतः कतिचित् पदान्यनुगमनं-व्रजनं, आदिग्रहणात् मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासो