________________
૧૮૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૨૨
नशनग्रहणाच्चतुर्थभक्तपरिग्रहः, श्रुतानुसारात् पञ्चमव्यवहारानुसाराच्च, तच्च मध्यमग्रहणाच्चाद्यभेदपरिग्रहोऽपि, तत्राद्याः पञ्चकदशकविंशतिपञ्चविंशतेर्भेदा लघवो गुरुवश्च, मासोऽपि च लघुर्गुरुः, चत्वारश्च मासा लघवो गुरुवश्च, षट् च मासा लघुगुरवः मध्यं च भिन्नमासो लघुगुरुभेदः, सर्वमेव तत्तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽतिचारविशुद्ध्यर्थमुक्तं, सम्प्रति तु पञ्चमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरन्ति, तच्च निर्विकृत्याद्यष्टमभक्तान्तं, तच्चानेकातिचारविषयं यथा उद्देशकाध्ययनश्रुतस्कन्धाङ्गेषु प्रमादिनः कालविनयातिक्रमादिषु क्रमेण निर्विकृत्याद्याचाम्लान्तमनागाढेषु आगाढेषु पुरस्ताद‘दिचतुर्थभक्तान्तमेवमादि, प्रकीर्णकं चानेकविधं चन्द्रप्रतिमादीत्युक्तलक्षणं बाह्ये तपसि प्राक् प्रपञ्चनेति । __ छेदप्रायश्चित्ताभिधित्सयैवाह-छेदोऽपवर्त्तनमपहार इत्यभिन्नार्थाः पर्यायाः, स च छेदः पर्यायस्य महाव्रतारोपणकालादारभ्य गण्यते । एतदेवाह- प्रव्रज्यादिवस-पक्ष-मास-संवत्सराणामन्यतमेषां भवति । प्रव्रज्यादिवसो यत्र महाव्रतारोपणं कृतं तदादिः पर्यायः । तत्र पञ्चकादिच्छेदः पर्यायस्य यथा यस्य तावद् दश वर्षाणि आरोपितमहाव्रतस्यापराधानुरूपः कदाचित् पञ्चकच्छेदः कदाचिद् दशक इत्यादि यावत् षण्मासपरिमाणच्छेदो लघुर्गुरुर्वा एवंविधेन छेदेन छिद्यमानपर्यायः प्रव्रज्यादिवसमप्यपहरतीति, अस्य च विषयस्तपसा गर्वितस्तपसोऽसमर्थस्तपश्चाश्रद्दधानस्तपसा च यो न दम्येत कश्चिदपरिणामकश्चेत्यादि ।
सम्प्रति मूलप्रायश्चित्तमभिधीयते-परिहारो मासिकादिरिति इदं मूलप्रायश्चित्तोपलक्षणं, परिह्रियते तस्मिन् सति वन्दनालापानप्रदानादिक्रियया साधुभिरिति परिहारः, स च मासादिकः षण्मासान्तः, तस्य चान्ते क्वचिन्मूलं-पुनर्वतारोपणं, तद्विषयः सङ्कल्पात् कृतः प्राणातिपातो दर्पाच्चतुर्थासेवनमुत्कृष्टं मृषावादादि वा सेवमानस्येत्येवमादिः ।