________________
સૂત્ર-૨૨
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૮૭ तदुभयप्रायश्चित्तनिरूपणायाह-एतदुभयमालोचनप्रतिक्रमणे इति आलोचनं व्याख्यातं प्रतिक्रमणं च, एतदेवोभयप्रायश्चित्तं, प्रागालोचनं पश्चाद् गुरुसंदिष्टस्य प्रतिक्रमणं, एतच्चोभयप्रायश्चित्तं सम्भ्रमभयातुरापत्सहसानाभोगानात्मवशगस्य दुष्टचिन्तितभाषणचेष्टावतश्च विहितम् ।
सम्प्रति विवेकप्रायश्चित्तावसरः, विवेको विवेचनमित्यादि विवेकः त्यागपरिणामः विवेचनं भावविशुद्धिः विशोधनं निरवयवता पुनः प्रत्युपेक्षणं प्रस्फोटनमीक्षणमेव प्रयत्नेन, स्वल्पोऽप्यवयवो नास्तीति विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति, विवेकप्रायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवति, उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकाहँ, अन्नपानग्रहणात् पिण्डपरिग्रहः, उपधिरौघिकौपग्रहिकलक्षणः, शय्या प्रतिश्रयः, आदिग्रहणाद् डगलकभस्ममल्लकभेषजादिपरिग्रहः, इत्येवं विवेक एव प्रायश्चित्तमिति ।
सम्प्रति व्युत्सर्गप्रायश्चित्तमुच्यते व्युत्सर्ग इत्यादि विशिष्टोत्सर्गःप्रणिधानपूर्वको निरोधः कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टेप्रतिष्ठापनमित्यनर्थान्तरं प्रतिष्ठापनशब्दः परित्यागार्थः । कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपीत्यादिना व्याचष्टे, कायोत्सर्गः प्रायश्चित्तं भवति, क्व ?, अनेषणीयादिषु त्यक्तेषु, तत्रानेषणीयं उद्गमाद्यविशुद्धमन्नपानमुपकरणं वा प्रतिष्ठाप्य कायोत्सर्गः कार्यः, आदिग्रहणाद् गमनागमनविहारश्रुतसावधस्वप्नदर्शननौसंतारणोच्चारप्रस्रवणाचरणपरिग्रहः, अशकनीयविवेकेषु चेति घनसंसक्तदधितक्रादिषु न प्राणिनो विवेक्तुं शक्यन्ते इत्यशकनीयविवेकेषु च, सक्तुप्रभृतिष्वपि प्रतिष्ठापितेषु कायोत्सर्ग एव प्रायश्चित्तं भवतीति ।
तपःप्रायश्चित्तविवक्षया आह- तपो बाह्यमनशनादि प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि बाह्य, बाह्याभ्यन्तरता च केनचिदंशेनेत्यविरोधः, तत्रा