________________
૧૮૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ સૂત્ર-૨૨ ___ पातुपामा ‘चितीसंज्ञानविशुद्धयोः' मेवो पातु छ. चित् पातुर्नु - निsia मने औules 'चित्त' मे ३५ थाय छे. ॥ प्रभारी मादायन। વગેરે દુષ્કર તપવિશેષોથી અપ્રમત્ત સાધુ તે અતિચારને પ્રાયઃ વિશુદ્ધ કરે છે અને વિશુદ્ધ કરતો તે ફરી તેવા અપરાધને સેવતો નથી. આથી પ્રાયશ્ચિત્ત છે અથવા પ્રાયઃ એટલે અપરાધ. તેનાથી(=આલોચનાદિથી) अ५२।५ शुद्ध थाय छे. माथी प्रायश्चित्त उपाय छे. (८-२२)
टीका- आलोचनादयः उपस्थापनान्ताः कृतद्वन्द्वाः नपुंसकलिङ्गेन निर्दिष्टाः, प्रायश्चित्तं नवभेदमित्यादि विवरणं, उपसङ्ख्यानिकः सुट्, तद्यथेत्यादिना नवापि भेदान् विवेकेन दर्शयति, तदुभयमित्येतद् व्याचष्टे, आलोचनप्रतिक्रमणे इति, तदित्यनेनालोचनं प्रतिक्रमणं च संगृहीतम् । एष च तृतीयो भेदः, आलोचनादीन् भाष्यकार एव विवृणोति, अनया मर्यादया दोषरहितं कार्याकार्यमव्युत्पन्नबालजल्पितवत्सकलमतीचारमाचष्टे-प्रत्यक्षीकरोतीति दर्शयति, प्रकाशयत्यालोचनास्य गुरवे, तत्र कश्चिदतीचारो गमनागमनादिकः प्रमादक्रियाविशुद्ध्यर्थमालोचनामात्रादेव विशुद्धयति, तस्यालोचनस्यैकार्थाः पर्यायाः, आलोचनं मर्यादया गुरोनिवेदनं पिण्डिताख्यानस्य, विकटनं विवरणं द्रव्यादिभेदेन, प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणं, आख्यानं प्रथममृजुभावेन साधनं, प्रादुष्करणं निन्दागर्हाद्वारेणेत्येवमनर्थान्तरमेकार्थत्वं परमार्थत इति,
प्रतिक्रमणमित्यादि स्वयमेव विवृणोति भाष्यकारः अतीचाराभिमुख्यपरिहारेण प्रतिपं क्रमणं-अपसरणं प्रतिक्रमणं, एतदाह-मिथ्याअलीकमुत्सूत्रमुन्मार्गः दुष्टं कृतं दुष्कृतं चरणविराधनमित्यर्थः तेन संप्रयुक्तः, प्रत्यवमर्शः-पश्चात्तापः, समस्तमिदं मया दुष्टं कृतमिति, स्वच्छन्दतो, न सूत्रानुसारेणेति, न पुनरेवं करिष्यामीति, प्रत्याख्यानं प्रतिक्रमणं कायोत्सर्गकरणं चेति कायस्य-शरीरस्योत्सर्गः-उत्सर्जनं भावतः कायोत्सर्गः, यस्मात्तु सुविशुद्धभावस्यापि ममायं कायो बलान्निपतितः कायेष्विति न मम भावदोष इति । तदेवंविधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य विहितम् ।