________________
સૂત્ર-૧૯ શ્રી તત્ત્વાધિગમસૂત્ર અધ્યાય-૯
૧૭૧ भवति, तत्राप्यभिग्रहविशेषादेव स्वसामर्थ्यापेक्षात् कालनियमः, उत्कटुकासनं तु प्रसिद्धमेव, विनाऽऽसनेन भूमौ वाप्राप्तस्फिग्द्वयस्य भवति, एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यवस्थितो वा कालनियमभेदेन यदवतिष्ठते तत्तपः कायक्लेशाख्यं, तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घद्धयश्चलनरहितस्तिष्ठति यदा तदा तद्भवति, आतपनमप्यूर्ध्वबाहोरूर्ध्वस्थितस्य निविष्टस्य निषण्णस्य वा प्राग् प्रज्वलितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति, अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणं, आदिग्रहणाद्धेमन्तेऽपि रजनीष्वातापनं, सन्तापनमात्मनः शीतार्तिसहनमित्यर्थः, तथा लगण्डशायित्वमप्रतिकर्मशरीरत्वमस्नानकं केशोल्लुञ्चनमित्येवमेतानि स्थानवीरासनादीनि सम्यक्प्रयुक्तान्यागमचोदनानुगतानि बाह्यं तपो यथाशक्ति विधिनाऽनुष्ठेयं, अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धावश्यकविधीन् पीडयेत्, अविध्युपयुक्तविषवत्, किं पुनरितो बाह्यात्तपसः फलमवाप्यत इत्याहअस्मात् षड्विधादपि बाह्यात्तपस इत्यादि, सङ्गत्यागं शरीरलाघवमिन्द्रियविजयं संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते, तत्र निःसङ्गत्वं बाह्याभ्यन्तरोपधिष्वनभिष्वङ्गो-निर्ममत्वं, प्रतिदिनमतिमात्राहारोपयोगात् प्रणीताहारोपयोगाच्च शरीरस्य गौरवं, ततश्च मासकल्पविहारिताया अयोग्यता, तद्वर्जनात्तु शकटाक्षाभ्यञ्जनवदुपयोगाद्वा शरीरलाघवमुपजायते, ततश्चाप्रणीतशरीरस्योन्मादानुद्रेकादिन्द्रियविजयः, भक्तपानार्थमहिण्डमानस्य वर्षाजनितजन्तूपरोधाभावात् संयमसंरक्षणं, निसङ्गादिगुणयोगादनशनादितपोऽनुतिष्ठतः शुभध्यानव्यवस्थितस्य कर्मनिर्जरणमवश्यं भावीति ॥९-१९॥
ટીકાર્થ– બાહ્ય અને અત્યંતર એમ બે પ્રકારનો તપ છે. તેમાં બાહ્ય અને અત્યંતર શબ્દનો અર્થ પહેલા (અ.૯ સૂ.૬ ની ટીકામાં) જણાવ્યો છે. તે એક એક તપ છ પ્રકારે છે. તેમાં બાહ્યના છએ ય ભેદોને સૂત્રનું વિવરણ કરતા ભાષ્યકાર કહે છે–