________________
૧૭૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૧૯
रित्रोपघात एवैष सर्वः, तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि निरूपयतिशून्यागार इत्यादिना शून्यागारं - शून्यगृहमदोषं देवकुलं - दुर्गाद्यायतनादि सभा-यत्र प्राङ् मनुष्याः समवायमकृषत सम्प्रति तु न तत्र समवयन्ति पर्वतगुहा - पर्वतविवरं गिरिनगरादाविव लयनानि, आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्त्ति मण्डपकादि परिगृह्यते, एषां यथोक्तानामन्यतमस्थाने व्यवस्थानं, किमर्थमिति चेत् समाध्यर्थं समाधिर्ज्ञानदर्शनचारित्रतपोवीर्यात्मकः पञ्चधा, समाधानं समाधिः स्वस्थता ज्ञानादीनामपरिहाणिविवृद्धिश्च, इत्थमियं संलीनता तपोविशेषः, इन्द्रियाणि संयम्य सस्वान्तानि क्रोधादिकषायकदम्बकं च विविक्तं शय्यासनमासेवमानस्य संलीनता भवतीति प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन, कषायसंलीनता क्रोधस्य तावदुदयनिरोधः प्राप्तोदयस्य वा वैफल्यापादनं, एवं शेषाणामपि, तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा, एवं वागपि वाच्या, कायव्यापारे समुत्पन्नप्रयोजनस्य यत्नवत: संलीनताव्यपदेशमश्नुते, विना प्रयोजनेन निश्चलासनमेव श्रेयः, विविक्तचर्या तु भाष्यकृतैवोक्ता ।
कायक्लेशोऽनेकविध इत्यादि कायः शरीरं तस्य क्लेशो - बाधनं, कायात्मनोरभेदः, संसार्य्यवस्थायामन्योऽन्यानुगतत्वात् क्षीरोदकयोरिव, अत: कायबाधायात्मनोऽपि कायद्वारेण क्लेशोपपत्तिः, सम्यग्योगनिग्रहो गुप्तिरित्येतस्मात् सम्यग्ग्रहणमनुवर्त्तते तच्च कायक्लेशविशेषणं आगमानुसारिणी सम्यक् क्लेशोत्पत्तिर्निर्जरायै न्याय्या, स चागमेऽनेकप्रकारः कायक्लेश उपन्यस्तः, तद्यथेत्यादिना तदनेकविधत्वं दर्शयति, स्थानवीरासनेत्यादि, स्थानग्रहणाद् ऊर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः तस्य चाभिग्रहविशेषात् स्वशक्त्यपेक्षातः कालनियमश्चन्द्रावतंसकनृपतेरिवावगन्तव्यः, वीरासनं जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनं निश्चेष्टा च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो
"