________________
સૂત્ર-૧૯ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૬૯ श्रेयानिति, मधु त्रिप्रकारं-माक्षिकं कोन्तिकं भ्रामरं च, एतदपि प्राण्युपघातनिष्पन्नमेवेति परिहार्य, द्रव्यादिचतुष्टयापेक्षयेति, गोमहिष्यजाविकानां नवनीतं चतुर्की, स चापि रसो वृष्य इति परिहार्यः, आदिग्रहणाद् क्षीरदधिगुडघृततैलाख्याः पञ्चावरुध्यन्ते विकृतयः, तत्र क्षीरविकृतिः पञ्चप्रकारा गोमहिष्यजाविकोष्ट्रीणां, दधिविकृतिरपि करभीवर्जानां चतुष्प्रकारा, गुडविकृतिरिक्षुविकारः फाणितादिः प्रसिद्धः खण्डशर्करावर्जः, दधिविकृतिरिव घृतविकृतिरपि चतुर्विधैव, तैलविकृतिरपि चतुर्विधा । तिलातसीसिद्धार्थककुसुम्भाख्यानि तैलानि, दशमी घृताद्यवगाहनिष्पन्ना अवगाह्यकविकृतिरपूपादिका । साप्यादिग्रहणादागृहीतैव, एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः, एता हि वृष्यत्वाद्वाजीकरणप्रसिद्धेश्चेति न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वाद्, एवं च विकृतयोऽन्वर्थसंज्ञां लभन्ते, अतो मुमुक्षुणा ललनाङ्गविलोकनवत् प्रत्याख्येयाः, इत्थं च रसपरित्यागलक्षणं विशिष्टं तपः । विरसरूक्षाद्यभिग्रहश्चेत्यनेन विनापि विकृतिभिः शक्यं प्राणरक्षणं यतिनेति दर्शयति, विगतरसं विरसं, तस्माद्रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकं, आदिग्रहणादन्तप्रान्तपरिग्रहः ।
विविक्तशय्यासनतानामेति शय्याग्रहणेन प्रतिश्रयत्रिकग्रहणं, आसनग्रहणेन पीठवृषिकादि, विविक्तं गर्हितजनसम्पातरहितं अबीलाशुषिरादि, विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता, नामशब्दो वाक्यालङ्कारार्थः अभिधानवचनो वा, अस्यैव विवरणमेकान्तेऽनाबाधे इत्यादि, पर्यायकथनेन व्याख्यानं, विविक्तमेकान्तमनाबाधमसंसक्तं स्त्रीपशुपण्डकविवर्जितमिति पर्यायाः, अनाबाध इति आबाधः-शरीरोपघातः स न विद्यते यत्र तदनाबाधं असंसक्त इति सूक्ष्मस्थूलजन्तुरहिते स्त्रीपशुपण्डकविवजित इति स्त्रियोमानुष्यः पशवो-गोमहिष्यजाविकाद्याः पण्डकानि-नपुंसकानि, वस्तुतश्चा