________________
૧૬૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૧૯ __ वृत्तिपरिसङ्ख्यानमनेकविधमित्यादि, वर्तते यया सा वृत्तिः-भैक्ष्यं तस्य परिसङ्ख्यानं-परिगणनं आगमविहितोऽभिग्रहो वा, परिगणनं दत्तीनां भिक्षाणां वा, तत्र दत्तिर्यदेकमुखेन प्रक्षिपति पात्रकादौ पटलकेन वा दोहनकादिना वा, भिक्षा तु हस्तेनोत्क्षिप्य यद्ददाति कडुच्छकेनोदङ्किकया वा, तत् परिगणनमेकां दत्तिं ग्रहीष्याम्यद्य द्वे तिस्रो वा इत्यादि, एवं भिक्षाणामपि गणनं गोचरप्रवेशकाले करोति, तद्यथेत्यादिना अभिग्रहानेकविधत्वं दर्शयति, उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादीनामित्यादि उत्क्षिप्तं पटलोदङ्किकाकडुच्छुकादिनोपकरणेन दानयोग्यतया दायकेनोद्यतं तादृशं यदि लप्स्ये ततो ग्रहीष्यामि नाविशिष्टमित्युत्क्षिप्तचर्याउत्क्षिप्ताभ्यवहरणमिति, तथाऽपरो निक्षिप्तचरकः पूर्वोक्तविपरीतग्राही, आदिशब्दादन्ये चाभिग्रहका वाच्याः, अन्तचरको रूक्षकौद्रवौदनारनालादिग्राही, प्रान्तचरकः शीतलौदनादिग्राही, इत्थमुत्क्षिप्तचर्यादीनामन्यतममभिग्रहमभिगृह्य पर्यटति भिक्षायै, सक्तुकुल्माषौदनादीनां चेत्यनेन द्रव्यक्षेत्रकालभावविभक्तान् अभिग्रहान् सूचयति, तत्र द्रव्यतः सक्तुकुल्माषान्नशुष्कौदनमादिशब्दात्तक्रतेमनमाचाम्लपर्णकं मण्डकान् वा ग्रहीष्ये, क्षेत्रतो देहली जङ्घयोरन्तः कृत्वा कालतो विनिवृत्तेषु सर्वभिक्षाचरेषु भावतो हसनरोदनादिव्यापृतो निगडादिबद्धो अक्ताक्षः कृततमालपत्रो वा दायको ददाति यत् तदेवमन्यतमं द्रव्याद्यभिगृह्य शेषप्रत्याख्यानं वृत्तिपरिसङ्ख्यानं तप इति ।
रसपरित्यागो इत्यादि, रस्यन्ते-स्वाद्यन्तेऽतिशयेन रसास्तान्, परित्यागो हि तत्परिहारः, सोऽनेकप्रकारः, तद्बहुत्वादेव तद्यथेत्यादिना रसान् प्रत्यक्षीकरोति, मद्यमांसमधुनवनीतादीनामित्यादि तत्र मद्यं गुडपिष्टद्राक्षाखजूरादिद्रव्यसम्भारोपजातं मदसामर्थ्य विषगरादिवज्जीवमस्वतन्त्रं करोति, अस्वतन्त्रश्च तद्वशः कार्याकार्यविवेकशून्यः, प्रभ्रष्टस्मृतिसंस्कारो न किञ्चिन्नाचरति गहितम् । मांसं- सर्वशास्त्रप्रतीतं तस्य परित्यागः