________________
सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૩૫ अलाभस्तु याचिते सति प्रत्याख्यानं विद्यमानमविद्यमानं वा न ददाति यस्य स्वं तत्, कदाचिद्वा दत्ते, अल्पं वा कदाचित् परः, कस्तत्रापरितोषो न यच्छति सति ? यथोक्तं-"बहुं परघरे अत्थी'त्यादि, अलाभे च प्रसन्नात्मनैव भवितव्यं अलाभपरीषहजयः १५,
रोगो-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्त्तन्ते, गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक् सहन्ते, प्रवचनोक्तेन वा विधिना प्रतिकारमाचरन्तीति रोगपरीषहजयः १६,
अशुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां, गच्छवासिनां च, तत्र येषां शयनमनुज्ञातं ? निशायां ते तान् दर्भान् भूमावास्तीर्य संस्तारकोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरैरुपकरणापहृतो वा प्रतनुकसंस्तारकादिपट्टको वा अत्यन्तजीर्णत्वात्तृणाद्यपि तं परुषकुशदर्भादितृणसंस्पर्शं सम्यगधिसहते यस्तस्य तृणपरीषहजयः १७,
रजः-परागमात्रं मलस्तु स्वेदवारिसम्पर्कात् कठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मसम्पातजनितधर्मजलादार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय कदाचिदभिषेकाद्यभिलाषं न करोतीति मलपरीषहजयः १८,
सत्कारो-भक्तपानवस्त्रपात्रादिना परतो योगः पुरस्कारः-सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कारितो वा न द्वेषं यायात् न द्वेषयेच्च मनोविकारेणात्मानमिति सत्कारपुरस्कारपरीषहजयः १९,
प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः तस्मात्तत्प्राप्तौ न गर्वमुद्वहत इति प्रज्ञापरीषहजयः २०,
प्रज्ञाप्रतिपक्षणाप्यबुद्धिकत्वेन परीषहो भवति, नाहं किञ्चिज्जाने मूर्योऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषहस्तदकरणात् कर्मविपाकोऽयमिति परीषहजयः,