________________
૧૩૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्रजिनकल्पादीनां गच्छवासिनां च पारमार्षप्रवचनानुसारिणां नाग्न्यपरीषहजयः सम्भवतीति नान्येषाम् ६, __ अरतिरुत्पद्यते कदाचिद्विहरतस्तिष्ठतो वा, सूत्रोपदेशात् तत्रोत्पन्नारतिनापि सम्यग्धर्मारामरतिनैव भवितव्यं, एवमरतिपरीषहजयः ७,
स्यादिति, न स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टाः चिन्तयेत् न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासु कामबुद्ध्या, एवं स्त्रीपरीषहजयः कृतो भवति, ८,
वर्जिताऽलस्यः ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः ९,
निषीदन्त्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिना तत्रानुद्विग्नेन निषद्यापरीषहजयः कार्यः १०,
शय्या-संस्तारकश्चम्पकादिपट्टो वा मृदुकठिनादिभेदेनोच्चावचः, प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरे बहुधर्मको वा तत्र नोद्विजेत कदाचनेति शय्यापरीषहजयः ११,
आक्रोशः अनिष्टवचनं तद् यदि सत्यं कः कोपः ? शिक्षयति हि मामयमुपकारी न पुनरेवं करिष्यामीति, असत्यं चेत् सुतरां कोपो न कर्तव्य इत्याक्रोशपरीषहजयः १२,
वधः-ताडनं पाणिपाणिलताकशादिभिस्तदपि शरीरकमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलसंहतिरूपं, आत्मा पुनर्न शक्यत एव ध्वंसयितुमतः स्वकृतकर्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः १३,
याचनं-मार्गणं भिक्षोर्वस्त्रपात्रान्नपानप्रतिश्रयादेः परतो लब्धव्यं सर्वमेव साधुना अतो याचनमवश्यमेव कार्यमित्येवं याञ्चापरीषहजयो विधेयः १४,