________________
सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૩૩ __ सत्यमुक्तं, आचेलक्यमुक्तं तत्तु यथोक्तं तथा कर्त्तव्यं, तीर्थकृत्कल्पस्तावदन्य एव, मतिश्रुतावधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतुर्जानिन इति युक्तमेव तेषां पाणिपात्रभोजित्वम्, एकदेवदूष्यपरिग्रहाश्च, साधवस्तु तदुपदिष्टाचारानुष्ठायिनो जीर्णखण्डितासर्वतनुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽपि अचेलका एव, यथा आपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते सवस्त्रकोऽपि, तथाऽत्र गुह्यप्रदेशस्थगनाय गृहीतचोलपट्टकोऽपि नग्न एवेति, योषित् काचित् परिजीर्णशाटिकापरिधाना तन्तुवायमाह-'नग्नाऽहं देहि मे शाटिका' इति, एवं साधवोऽप्यमहाधनमूल्यानि खण्डितानि जीर्णानि च बिभ्रतः श्रुतोपदेशाद्धर्मबुद्ध्या नाग्न्यभाज एवेति, चारित्रसूत्रे शुद्धपरिहारिकान् वक्ष्यामः, यथालन्दिकास्तु भण्यन्ते, लन्दमिति कालस्याख्या, तच्च पञ्चरात्रं, तेषां हि पञ्चको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु गच्छप्रतिबद्धाः, तत्र केचिज्जिनकल्पिकाः यथालन्दिनः, तत्र जिनकल्पिका निष्प्रतिकर्मशरीराः समुत्पन्नरोगाश्चिकित्सायां न प्रवर्तन्ते, नेत्रमल्याद्यपि नापनयन्ति, स्थविरकल्पास्तूत्पन्नरोगं गच्छे प्रक्षिपति, गच्छोऽपि प्रासुकैषणीयेन कर्म करोति भेषजादिना, स्थविरकल्पिकाश्चैकैकप्रतिग्रहधारिणः सप्रावरणाः, जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि, एकत्र पञ्चरात्रचारिण एते, गणप्रमाणं जघन्यतस्त्रयो गणाः शतश उत्कृष्टः, भिक्षाचर्या तु तेषां पञ्च पञ्चैव, एकवीथौ चरन्तः पञ्चभिः षट्कैर्मासकल्पं प्रतिसमापयन्ति, स्थितास्थितकल्पयोः शुद्धयोरपि ते भवन्ति, एवमेते जिनकल्पिकादयो गच्छनिर्गताः, तत्र यद्येवंविधं नाग्न्यमिष्यते ततो नागमोपरोधः, अथ परिधानकपरित्यागमानं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति, स्थविरकल्पिकास्तु चतुर्दशविधोपधय उत्सर्गापवादव्यवहारिणः औपग्राहिकोपधिधारिणश्च एवं