________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૯
ज्ञानं तु श्रुताख्यं चतुर्दश पूर्वाण्येकादशाङ्गानि समस्त श्रुतधरोऽहमिति गर्वमुद्वहते, तत्रागर्वकरणात् ज्ञानपरीषहजयः, ज्ञानप्रतिपक्षेणाप्यज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणोदयात् क्षयोपशमोदयविजृम्भितमेतदिति, स्वकृतकर्म्मफलपरिभोगादपैति तपोऽनुष्ठानेन वेत्येवमालोचयतो ज्ञानपरीषहजयो भवति २१,
૧૩૬
अदर्शनपरीषहस्तु सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्म्माधर्म्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति अदर्शनपरीषहः, तत्रैवमालोचयेद्-धर्म्माधर्मौ पुण्यपापफललक्षणौ यदि कर्म्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादी धर्म्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, विज्ञानात्मकत्वादात्मनः न प्रलम्भो विद्यत एव, देवास्त्वत्यन्तरतसुखासक्तत्वान्मनुष्यलोके च कार्याभावाद् दुष्षमानुभावाच्च न दर्शनगोचरं प्रयान्ति, नारकास्तु तीव्र वेदनार्त्ताः पूर्वकृतकर्म्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवति २२ ।
इतिशब्द इयत्ताप्रदर्शनार्थः, एत इति क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृताः द्वाविंशतिरिति, न न्यूनाः, नाधिकाः, क्षमादिदशलक्षणस्य धर्म्मस्य विघ्नहेतवः अन्तरायकारणभूताः । यथोक्तं संवराख्यं प्रयोजनमभिसमीक्ष्याभिसन्धाय संवरफलं चाभिसन्धाय मोक्षं रागद्वेषौ निहत्येति, केचिद्रागादुदयमासादयन्ति केचिद्वेषादित्यतः सर्व एवैते प्रादुःष्यन्ति, समापतिताः समन्तात् परिषोढव्या भवन्तीति ।
'पञ्चानामेव चे' त्यादिना सूत्रं सम्बध्नाति, पञ्चानामेव, न षण्णां, न चतसृणां कर्म्मप्रकृतीनां उदयाद्विपाकाद् द्वाविंशतिः परीषहा: समुपजायन्ते, काः पुनस्ताः पञ्च कर्म्मप्रकृतय इति नामग्राहमाचष्टे