________________
सूत्र-৩
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
साक्षान्मोक्षायैव कारणीभवतीति, ननु च यदि बुद्धिपूर्वको देवादिफल: शुभानुबन्धो विपाकस्तत आगमेन सह विरोध: "नो इहलोगट्टयाए तवमहिट्ठिज्जा", भण्यते, न मुमुक्षुणा देवादिफलमिष्टं, स हि मोक्षार्थमेव घटते, यदान्तरालिकं फलं देवादि तदानुषङ्गिकमिक्षुवनसेके तृणादिसेकवत्, मनीषितं तु तेन तपः परीषहजयाभ्यां मोक्षः प्राप्यः, तत्र या प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्वका विपाकहेतुरिति, तस्मादेवमनुचिन्तयन् कर्म्मनिर्जरणायैव घटते, निर्जरानुप्रेक्षा ॥९॥
૧૦૭
पञ्चास्तिकायात्मकमित्यादिना लोकानुप्रेक्षास्वरूपं निरूपयति, पञ्चास्तिकाया धर्म्माधर्म्माकाशपुद्गलजीवाख्यास्ते आत्मानःस्वरूपमस्येति, लोकमित्युपरिष्टाद्वक्ष्यति, विविधो नानाप्रकारः परिणामो यस्येति, तमेव विविधपरिणामं दर्शयति उत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं उत्पत्तिर्द्विविधा-प्रतिक्षणवर्त्तिनी कालान्तरवर्त्तिनी च, प्रतिक्षणवर्त्तिनी अविभाव्याऽन्त्यप्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिणामभावा: अस्तिकाया:, कालान्तरवर्तिनी मृद्द्रव्यं पिण्डाद्याकारेण मृद्भावं प्रकीर्णमपहाय पिण्डादिरूपेण परिणमते, स्थितिरवस्थानं अस्तिकायरूपेण सर्वदा व्यवस्थानात्, धर्मास्तिकायादिव्यपदेशं न जहते, ते सर्वदा व्यवतिष्ठन्त्येव वचनार्थपर्यायैः, अन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं विनाशः, सोऽपि द्विविध:-क्षणिकः कालान्तरवर्ती च विवक्षितक्षणाद्वितीयक्षणेऽन्यत्वमवश्यं भावीत्यवस्थान्तरापत्तिरेव विनाशो, न निरन्वयः क्वचिदस्ति प्रलयः स्थित्युत्पत्ती अनुग्रहकारिण्यौ सत्त्वानां घटो हि समुत्पन्नस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति, प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः, कुण्डलार्थिनः कटकविनाशवत्, अत एव एभिरुत्पत्त्यादिभिर्युक्तमुत्पत्त्यादिपरिणतिस्वभावमिति, विनाशो नानाप्रकारः स्वभावः स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षस्वरूपत्वात्
,,