________________
૧૦૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्र-७ आदिग्रहणादुत्तरगुणपरिग्रहः, इतरत्रादिग्रहणात् समितिग्रहणमतस्तांश्चिन्तयेत्, गुणा उपकारिणस्तान् गुणानित्येवं चिन्तयेत्, सर्वे ह्येते इत्यादि गतार्थं भाष्यम् ॥८॥
निर्जरानुप्रेक्षास्वरूपावधारणमधुना-निर्जरा वेदना इत्यादि निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकर्म पुद्गलपरिशटनं निर्जरा इति, तत्र वेदना अनुभवः तस्याः आस्वादनं, विपचनं विपाकः कर्मपुद्गलानामुदयावलिकाप्रवेशेन अनुभूतरसानामुत्तरकालं परिशाटः, विपच्यमाना विपक्वाः परिशटन्ति, 'द्विविध' इति, विपाकाभिसम्बन्धः निर्जरया सहैकार्थत्वाद्, द्वैविध्यप्रदर्शनायाह-अबुद्धिपूर्वः कुशलमूलच, तत्र बुद्धिः पूर्वा यस्य, कर्म परिशाटयामीत्येवंलक्षणा बुद्धिः प्रथमं यस्य विपाकस्य स बुद्धिपूर्वः न बुद्धिपूर्वः अबुद्धिपूर्वः, तत्र तयोर्विपाकयोरयं तावदबुद्धिपूर्वः नरकतिर्यङ्मनुष्यामरेषु कर्म ज्ञानावरणादि तस्य यद् फलं-आच्छादकादिरूपं तद्विपाक:-तदुदयस्तस्मात् कर्मफलाद्विपच्यमानाद्यो निर्जरणलक्षणो विपाकः, सति तस्मिन् कर्मफले विपच्यमाने स भवत्यबुद्धिपूर्वकः, न हि तैस्तपः परीषहजयो वा नारकादिभिर्मनीषितः, तमेवंविधं विपाकमवद्यतः पापं संसारानुबन्धिनमेव चिन्तयेत्, न हि तादृशा निर्जरया मोक्षः शक्योऽधिगन्तुमित्येतदेवाहकुशलानुबन्ध इति, यस्मादुपभुज्य यत्तत् कर्मफलं पुनः संसृतावेव भ्रमितव्यम् । यः पुनः कुशलमूलो विपाकः तपसा द्वादशविधेन परीषहजयेन च कृतः सोऽवश्यंतयैव बुद्धिपूर्वकः, तमेवंविधं गुणत इति गुणमुपकारकमेव चिन्तयेत्, यस्मात् स तादृशः किम् ?-शुभमनुबध्नाति, अमरेषु तावद्देवेन्द्रसामानिकादिस्थानान्यवाप्नोति मनुष्येषु च चक्रवर्तिबलमहामाण्डलिकादिपदानि लब्ध्वा, ततः सुखपरम्परया मुक्तिमवाप्स्यतीति । शुभानुबन्धः निरनुबन्धो वेति, वाशब्दः पूर्वविकल्पापेक्षः, तपःपरीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः