________________
सूत्र-७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૦૫ युक्तोऽपि वियद्विचारी अङ्गस्वरलक्षणाद्यष्टाङ्गं निमित्तं तस्य पारङ्गतो गार्ग्य इति गोत्राख्या, सत्यकिः स्त्रीष्वासक्तचित्तो निधनं-नाशमुपजगामेति, तथेत्यपरमुदाहरणं यवसः-चरणीयविशेषः तस्य प्रमाथो भञ्जनमर्दनाभ्यवहारलक्षणः उदके च स्वेच्छयाऽवगाहः अवगाहादिगुणसम्पन्नमिति आदिग्रहणात् सिंहादिव्यालरहितं एवंविधवनविचारिणो मदेन दुष्टतरा हस्तिनः । हस्तिबन्धकीष्विति विकारि(? रा)णां संज(न)नीषु अनेकप्रकारं वाजीकरणस्पर्शनादिभिः प्रौढयोषित इव मनुजान् प्रतारयन्ति हस्तिमूर्खान् बन्धः-संयमनं वधः-ताडनं दमनं-शिक्षाग्रहणं पश्चाद्वाहनं अङ्कुशोऽभिघातः प्रतोदः प्रयोजनकस्तेनाभिघातः आदिग्रहणादतिभारारोपणं युद्धकाले च शस्त्राभिघातः, तथेति दृष्टान्तान्तरमाह-मैथुनसुखप्रसङ्गेनाहितः कृतो गर्भो यस्याः अश्वतरी-वेगसरी प्रसवकाले मरणमभ्युपैत्यवशा, 'एव'मित्यादिना दाान्तिकमर्थमुपसंहरति, एवमुक्तेन न्यायेन लोकद्वयेऽपि विनाशमृच्छन्ति प्राप्नुवन्तीति ।
तथेत्याश्रवान्तरदोषदर्शनार्थं, सामयिकानि च वायसाधुदाहरणानि, बडिशो-गलस्तत्र मांसं तथेत्यपराश्रवगतदोषदर्शनमुदाहरणद्वयेन, तथापराश्रवदोषोपपादनं अर्जुनकश्चौरः श्यामायां विनिवेशितदृष्टिनिधनं गत इति, सामयिकमेवाख्यानकं, तथेत्ययमप्याश्रवः सदोष इति कथयति, तित्तिरिः पञ्जरस्थतित्तिरी-शब्दश्रवणादागतो युयुत्षार्थी पाशेन बध्यते, एवं कपोतकपिञ्जलकावपि, गीतमेकमेव गौर्याखेटके गायति सङ्गीतकं तु वंशकांस्यादीत्यादियुक्तं, एवमेतान् आश्रवान् दोषबहुलानेव चिन्तयेत्, एवं च परिचिन्तयन्नाश्रवनिरोधायैव घटत इत्याश्रवानुप्रेक्षा ॥७॥
संवरानुप्रेक्षानिरूपणायाह-संवरांश्च महाव्रतादीनित्यादि आश्रवद्वाराणां पिधानं-आश्रवदोषपरिवर्जनं संवरः, तांश्च संवरान् प्राणातिपातनिवृत्त्यादीन् गुप्त्यादिपरिपालनादिति गुप्त्यादयः परिपालना येषां महाव्रतादीनाम्,