________________
૧૦૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૭ रूक्षणं रोधकषायादिभिः स्नानं जलेन अनुलेपनंचन्दनादिकं धूपोविशिष्टगन्धद्रव्यसमवायी प्रघर्षो-ऽङ्गघर्षणम् वासयुक्तिः-पटवासादिका माल्य-माला/ पुष्पं, आदिग्रहणात् कर्पूरोशीरतुरुष्ककस्तूरिकाग्रहः, एभिरप्यस्य विशिष्टद्रव्यैरशुचित्वमपनेतुं न शक्यं, कुतः ?अशुच्यात्मकत्वात् अशुचिरात्मा-स्वभावो यस्य तदशुच्यात्मकं, अशुचिस्वभावस्य पुरीषादेरिवाशक्यप्रतिकारमशुचित्वापनयनं, शुच्युपघातकत्वाच्चाशुचि शरीरं, शुचीनि द्रव्याणि-शाल्योदनदधिघृतक्षीरादीनि तान्यप्यात्मसम्पर्कादुपसंहत्याशुचीकरोति, यतः कर्पूरचन्दनकश्मीरजादीनि सुगन्धिद्रव्याणि संश्लेषमात्रादेव पूतीकरोति अतोऽन्विष्यमाणं सर्वप्रकारं शरीरमेवाशुचि परमार्थतो, नापरं किञ्चित् स्वतोऽशुचि समस्ति, शरीरं तत्सम्पृक्तं वा विहायेति, एवं ह्यस्य चिन्तयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह- निर्वेदः-अप्रीतिः अरतिः-उद्वेगः, शरीरके निविण्णः न शरीरसंस्कारार्थमायतते, जन्मप्रहाणायैव तु घटत इत्यशुचित्वानुप्रेक्षा ॥६॥
आश्रवानुप्रेक्षास्वभावप्रकाशनायाह-आश्रवानिहामुत्रापाययुक्तानित्यादि, आश्रूयते-यैः कर्मादीयते आश्रवास्ते इन्द्रियादयः तानाश्रवानिह लोके अमुत्रेति परलोके अपायो-दोषः पीडा दुःखं तेनापायेन युक्तान्, महानदी गङ्गादिका तस्याः श्रोत:-प्रवाहस्तस्य वेगः-संसर्पणविशेषः तद्वत्तीक्ष्णान् यथा स नदीप्रवाहस्तृणकाष्ठादि पतितमपहरति एवमेते चक्षुरादयः स्वप्रवाहपतितमात्मानमपहरन्ति-सन्मार्गाद् भ्रन्शयन्ति, अकुशलं पापं सामान्येन वा कर्मबन्धः तस्यागमः प्रवेशः तद्द्वारभूतान् कुशलस्य च पुण्यस्य दशविधधर्मस्य निर्गमद्वारभूतान् इन्द्रियमादिर्येषां ते इन्द्रियादयः तानवद्यत खण्डयतो जीवस्यापकारिणश्चिन्तयेत्, अथवा अवयं-गर्हितं, गर्हितान्-पापानित्येवं चिन्तयेत्, तद्यथेत्यादिना सोदाहरणेन आश्रवान् दर्शयति, सिद्ध्यतीति सिद्धः-सिद्धविद्यः सोऽनेकविद्याबलेन