________________
सूत्र-७
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૦૩
ऽशुचिरेव, ततो वाताशयं प्राप्तः समीरणेन विभज्यमानः पृथक्खलः पृथग्रस इति द्वयीं परिणतिमापाद्यते, ततो खलान्मूत्र-पुरीष-दूषिकास्वेद-लालादयो मलाः प्रादुष्यन्ति, रसाच्छोणितमांसमेदोऽस्थिमज्जाशुक्राणि जायन्ते, सर्वं चैतत् कफादि शुक्रान्तमशुच्येव, तस्मादाद्युत्तरकारणाशुचित्वादशुचिरेव, किञ्चान्यदित्यनेन अशुचित्वे हेत्वन्तरमाहअशुचिभाजनत्वादिति अशुचीनि कर्णमलादीनि तेषामवस्करभूतम्, अवस्करो-वर्चस्थानं पादपायुक्षालनकं तदिव यत् तदवस्करभूतं तस्मादशुचीति, किञ्चान्यद् अशुच्युद्भवत्वादिति हेत्वन्तरं एषामेव कर्णमलादीनामशुचीनामुद्भव आकरः शरीरं यस्मात्तत उत्पद्यन्ते एते कर्णमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितं, अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्ते इति प्रतिपाद्यते, अथवा अयं विशेषः-अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरं, गर्भ-उदरमध्यं, चशब्दो वाशब्दार्थः अशुचौ वा गर्भे पुरीषादिप्राये सम्भवति-उत्पद्यते यस्माच्छरीरं तस्मादशुचीति, किञ्चान्यदित्ययमपरो हेतुरशुचित्वे अशुभपरिणामिपाकानुबन्धादिति अशुचिः परिणामो यस्य पाकस्य तेनानुबन्धत्वाद्-अनुगतत्वात्, तमेवाशुभपरिणामं पाकं प्रकाशयति आर्तव इत्यादिना, आर्तवम्-ऋतौ शोणितं तस्मिन् आर्त्तवे सति, बिन्दोराधानात् प्रभृतीति, बिन्दुः-शुक्रावयवः तदाधानात्-तत्प्रक्षेपात् प्रभृत्यौदारिकं कललादिभावेन परिणमते, अर्बुद-घनव्यूहोऽवयवविभागः, सर्वश्चायमशुभपरिणाम: पाकः कललाद्यवयवरूपस्तेनानुबद्धं दुर्गन्धिअशुभगन्धं अत एव पूतिस्वभावं, दुरन्तमिति पर्यवसानेऽपि कृम्यादिपुञ्जो वा गृध्रसारमेयवायसादिभक्तं वा भस्मान्तमस्थिशकलानि वा, एवमिदं दुष्टान्तं शरीरं यतस्तस्मादशुचीति, किञ्चान्यदिति प्रकारान्तरेणैवाशुचित्वप्रतिपादनं, अशक्यप्रतीकारत्वादिति अशक्यः प्रतिकारो यस्याशुचित्वस्य, अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः, उद्वर्त्तनं प्रतीतं,