________________
૧૦૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्र-७ कदाचिदादिरन्तो वा विद्यते, आरभ्यारम्भकभावाभावात्, ज्ञानरूपेण दर्शनरूपेण च, अविच्छिन्नत्वात्, तत्स्वरूपत्वाच्च सर्वदैवानाद्यन्तोऽहं, इतश्चान्यत्वं, बहूनि च मे शरीरशतसहस्राणीत्यादि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवन्ति, संसारे परिभ्रमतः अनादौ च संसारे बहून्यतीतानि शरीरकाणि, न हि तेषां अधुनातनशरीरेऽन्वयोऽस्ति स्वल्पोऽपि, अहं पुनः स एव येनोपभुक्तान्यतीतानि शरीरशतसहस्राणीत्यतोऽहमन्यस्तेभ्य इत्यनुचिन्तयेत्, अन्यत्वे च सति विच्छिनशरीरममत्वो निःश्रेयसायैव घटत इत्यन्यत्वानुप्रेक्षा ॥५॥ __ अशुचित्वानुप्रेक्षानिर्धारणायाह- शुचि-मलरहितं न शुच्यशुचि शरीरकं-पाणिपादाद्यवयवसन्निवेशविशेषः तदशुचीत्येवं विचिन्तयेत्, ननु च निर्मलशरीराः स्निग्धत्वचः स्त्रियः पुमांसश्च दृश्यन्ते, तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह-आधुत्तरकारणाशुचित्वादित्यादि हेतुपञ्चकं, तत्राद्युत्तरकारणाशुचित्वादिति तत्र तेषु पञ्चसु हेतुषु आधुत्तरकारणाशुचित्वादित्यस्य व्याख्या, तावच्छब्दः क्रमावद्योतनार्थः, आद्यं कारणं-प्रथमं शुक्रं शोणितं च, करोतीति कारणं, निर्वर्त्तयत्युत्पादयतीत्यर्थः, योनावुत्पद्यमानो जीवस्तैजसकार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति, शरीरीकरोति-औदारिकशरीरतया परिणमयति, ततः कललार्बुदपेशीघनपाणिपादाद्यङ्गोपाङ्गशोणितमांसमस्तुलुङ्गास्थिमज्जाकेशश्मश्रुनखशिराधमनिरोमकूपादिना परिणमयति, उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति, तदेव तदुभयमत्यन्ताशुचीति, शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति-अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति, तद्यथा कवलाहारो हीत्यादिना उत्तरकारणस्याशुचित्वमाचष्टे, कवलाहारो हि जनन्या ग्रस्तमात्र एव श्लेष्माशयं-कफस्थानं प्राप्तः श्लेष्मणा द्रवतामापादितोऽत्यन्ताशुचिस्ततोऽपि पित्तस्थानप्राप्तोऽम्लतामापन्नो