________________
सूत्र-७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૦૧ यन्त्यमुमर्थमेक एवाहं जाये एक एवाहं म्रिये इति, एतदेव भाष्येण दर्शयति-न मे कश्चित् इत्यादि, मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्त इति, एतन्न प्रत्यंशो-विभागो वण्टकं न च सम्भूय स्वजनाः परजना वा मयि दुःखमुत्पन्नं विभाजयन्तीत्यर्थः, ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिन्तयेत्, स्नेहानुरागप्रतिबन्ध इति, जनन्यादिविषयः स्नेहः भार्यायां कामविषयोऽनुरागः प्रतिबन्ध आसक्तिन भवति, परसंज्ञेषु च द्वेषानुबन्धः, पर एवायं न कदाचिदात्मीयो भवति, किमनेनादृतेनेति ?, ततः स्वजनेषु परजनेषु च निःसङ्गतामुपगतो मोक्षायैव यतत इत्येकत्वानुप्रेक्षा ॥४॥
अन्यत्वभावनाविर्भावनायाह-शरीरव्यतिरेकेणेत्यादि शरीरं पञ्चप्रकारं औदारिकादि तस्मात् शरीरपञ्चकादन्योऽहं, कुत एतद् ?, यस्मादिन्द्रियग्राह्यं शरीरं, अतीन्द्रियोऽहं, न चक्षुरादिना करणेन ग्रहीतुं शक्यः, इन्द्रियग्राह्यं शरीरमित्यव्यापिनी अभेदप्रतिपत्तिरित्याह-अनित्यं शरीरमित्यादि, पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसन्निवेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असङ्ख्येयप्रदेशसन्निवेशं परित्यज्य ज्ञानदर्शनरूपं वा वृत्तो वर्तते वर्तिष्यते वा, ततश्च नित्यत्वमात्मनः, ननु च परिणामानित्यतयाऽऽत्मा अनित्योऽपीष्यत इत्यपरितुष्यन्नाह-अज्ञं शरीरं ज्ञोऽहमिति न कदाचित् पुद्गला ज्ञानाधुपयोगरूपेण परिणामिनो भवन्ति, आत्मा तु परिणामी ज्ञानाधुपयोगपरिणामेनातोऽन्यत्वं, आद्यन्तवच्छरीरमनाद्यन्तोऽहं आदिः-आरम्भकालः अन्तो-विनाशकालः तौ यस्य स्तः तदाद्यन्तवत्, आदिः औदारिकवैक्रियाहारकाणां सुज्ञानः तैजसकार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्टं, पर्यायाङ्गीकरणेन तु तैजसकार्मणपुद्गलाः परिशटन्ति लगन्ति च, यदा श्लेषमायान्ति तैजसकार्मणतया तदा- आदिः, यदा परिशटन्ति तदाऽन्तः, नैवमात्मनः