________________
१००
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૭ व्यवस्थास्तीति । माता हि भूत्वेत्यादिना, तामेवाव्यवस्थां प्रपञ्चयति, एवं चतुरशीतियोनिप्रमुखशतसहस्रेष्वित्यादि, योनिर्यत्र सन्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद् वैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्येण, तत्र पृथिवीजलज्वलनसमीरणेषु प्रत्येकं सप्त लक्षाः दश लक्षाः प्रत्येकवनस्पतिषु निगोदजीवेषु चतुर्दश लक्षाः द्वित्रिचतुरिन्द्रियेषु प्रत्येकं द्वे द्वे लक्षे तिर्यङ्नारकदेवेषु प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुजेषु चतुर्दश लक्षा, एवं चतुरशीतिर्लक्षा योनीनां चतुरशीतियोनिप्रमुखानि शतसहस्राणि, प्रमुखशब्दः प्रधानवचनः, चतुरशीतियोनिप्रधानानि शतसहस्राणि तेषु, नान्येष्वित्यर्थः, रागो मायालोभौ द्वेषः क्रोधमानौ मिथ्यात्वहास्यादिर्मोहः एभिरभिभूतैर्जन्मवद्भिः अनिवृत्ता विषयतृष्णा येषां ते तथा तैः अविच्छिन्नविषयतर्फः अन्योऽन्यं परस्परं भक्षणं पृथुरोमादीनामिव तथा वधो-मारणं बन्धः-संयमनं अभियोगः-अभ्याख्यानं आक्रोश:-अप्रियवचनं एभिरन्योऽन्यभक्षणादिभिर्जनितानि तीव्राणि प्रकृष्टानि दुःखानि प्राप्यन्ते-अनुभूयन्ते, अहो इति विस्मये, न खल्वेवंविधं दुःखभाजनमन्यदस्ति यादृशः संसारः, द्वन्द्वा वधबन्धदंशमशकशीतोष्णादयः एत एवारामो यत्र संसारे, आरामो हि नानाजातीयतरुसमूहः, आराम इवारामो, द्वन्द्वानां सङ्घातः, कष्टं-कृच्छं दुःखं-गहनं स्वरूपं-स्वभावः यस्य इत्येवं चिन्तयेत्, ततः संसारभयादुद्विग्नस्य जातारतेः सांसारिकसुखजिहीर्षालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा ॥३॥
एकत्वभावनास्वरूपाभिधानायाह-एक एवाहमित्यादि एक एवाहं, न जातुचित् ससहायो जाये म्रिये वा जननं मरणं वाऽनुभवामि इति, यमलकयोरपि क्रमेणैव निस्सरणं, यच्च जन्मनि दुःखं मरणे वा तदेक एवाहमनुभवामीत्यर्थः, न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति, ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचार