________________
सूत्र-9
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
उदरस्थोऽपि पिण्डितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः कतिचिन्मासान् दुःखेन गमयति, निर्लुठितश्च योनेर्जरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः, मरणमप्यावीचिकमवश्यं भाव्येव जन्मवतः, व्याधयो ज्वरातिसारकासश्वासकुष्ठप्रभृतयः प्रियः - इष्टो जनस्तेन सह विप्रयोगस्तद्विपरीतोऽप्रियस्तेन च संप्रयोगः, ईप्सितमाप्तुमिष्टं तस्यालाभो, दौर्मनस्यं मानसमेव दुःखं मरणमल्पायुषत्वादुपक्रमसन्निधानाद्वा सकलायुषः परिक्षयाद्वाऽवश्यंतया प्राणिनां संसारे भवति, आदिग्रहणाद् वधबन्धपरिक्लेशशीतोष्णदंशमशकद्वन्द्वाभिभवः । एवं जन्मनाऽऽदित समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं नास्तीत्यालोचयति, सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु सुवर्णादिषु च नाभिष्वङ्गो न प्रीतिर्भवतीति परमर्षिप्रणीतशासनाभिहित एव विधौ ज्ञानचरणादिलक्षणे घटते प्रवर्त्तत इति जन्मजरामरणभयपरिष्वक्तस्य च यस्मात्तदेव परं प्रकृष्टं शरणमित्यशरणानुप्रेक्षा ॥२॥
૯૯
संसारानुप्रेक्षानिरूपणाय प्रक्रम्यते - अनादौ संसार इत्यादि, अविद्यमान आदिर्यस्यासावनादिः न अभूत उत्पन्नो नाप्युत्पादितः केनचिदिति, संसरणं-इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन, भवशब्दो जन्मवचनः, नरकादिजन्मनां ग्रहणान्युपादानानि तेषु चक्रवत्तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षितिजलदहनपवनवनस्पतिशरीराः द्वित्रिचतुःपञ्चेन्द्रियलक्षणाः स्वजनकाः सन्तो यदा यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बद्धतामन्वभूवन्ननुभवन्त्यनुभविष्यन्ति वा, तदा स्वजनकाः स्वाम्यादयो वा । यदा नासम्बन्धास्तदा परजनाः । एतदेव दर्शयति न हि स्वजनपरजनयोर्व्यवस्था विद्यत इति, न नित्यमेव कश्चित् स्वजन: परजनो वाऽस्ति, स्वजनो भूत्वा कर्म्मानुभावात् परजनो भवति, परजनश्च भूत्वा स्वजनो भवतीय (? त्थ) मव्यवस्थैव संसारे, न