________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૭ एवमनागत एवानुप्रेक्ष्यमाणस्य तत्राभिष्वङ्गः-स्नेहप्रतिबन्धो न भवति, तत्र स्नेहाभ्यञ्जनोद्वर्त्तनमर्दनस्नानविभूषादिषु निःस्पृहस्य धर्मध्यानादिषु व्यासङ्गो भवति, आगमेऽप्यभिहितं-"जंपि इमं सरीरं इ8 कंतं पियं मणुण्णं" इत्यादि, शय्या-प्रतिश्रयः संस्तरणपट्टकादिः-संस्तारफलकादिर्वा आसनं गोमयपीठकादि वस्त्रं कल्पचोलपट्टकादि प्रतिदिवसं रजसा विपरिणम्यमानं सर्वप्रकारं स्वां सन्निवेशावस्थां विहाय विशरारूतां प्रतिपद्यत इति भावनाभ्यासान्न तेषु ममत्वं भवति, केवलं धर्मसाधनमिति ग्रहणं, सर्वसंयोगाश्चानित्या इति, यावन्तः संयोगा मम सम्बन्धाः केचिद्बाह्याभ्यन्तरैर्द्रव्यैः तेऽनित्याः, यतः संयोगेन वियोगान्तेन भवितव्यं, स्वभावः खल्वयं बाह्याभ्यन्तराणां द्रव्याणामित्येवं चिन्तयेत्, कस्माद्धेतोः ? यस्माच्चैवं चिन्तयतः तेष्वभिष्वङ्गो न भवति, स्नेहप्रतिबन्धः, एतदेवाह-मा भून्मे तद्वियोगजं दुःखमित्यनित्यानुप्रेक्षा । तैवियोगो बाह्याभ्यन्तरैर्द्रव्यैस्तद्वियोगे जातं दुःखं शारीरं मानसं वा तन् मा भूदित्यनागतमेवेत्यनित्यानुप्रेक्षा ॥१॥
अशरणानुप्रेक्षाप्रतिपादनायाह-यथा निराश्रय इत्यादि यथेति दृष्टान्तप्रदर्शनं निराश्रय इति गुप्तिस्थानशून्येन विरहिते इति निवारकाभावप्रदर्शनं, यत्र जनस्तत्र कदाचित् कश्चित् कारुणिको निवारयत्यपि, वनस्थलीपृष्ठ इति, वनशब्देन वृक्षा एव गृह्यन्ते, न पुनर्जालिकूटादि तृप्तिस्थानं, बलवतेति दुर्बलेनाभिभूतः कदाचित् प्रणश्यत्यपि, बलवानपि यदि ध्राणो भवति तदा मन्दादरत्वान्नानुगच्छेदित्याह-क्षुत्परिगतेन आमिपैषिणेति सिंहेन मृगराजेनाभ्याहतस्याभिभूतस्य मृगशिशोरिति जीर्णमृगः कदाचिदनुभूतकूटशतवागुरानिःशरणः प्रगल्भात् प्रणश्येदपि, न पुनः शावः, शरणं भयापहारि स्थानं तस्य चाभावः, एवमित्यादिना दार्टान्तिकमर्थं समीकरोति, जन्म योनेनिःसरणं गर्भाधानं वा उभयं दुःखहेतुस्तत्राकुलः पिण्डकवद् योनिमुखेन पीड्यमानः कृच्छ्रेण निस्सरति,