________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
वैचित्र्याच्च कर्म्मपरिणतेः एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति एवम् उक्तेन प्रकारेण लोकस्वरूपमभिध्यायतस्तेषु जीवादिपदार्थेषु विशुद्धं निर्मलं शङ्कादिदोषरहितं ज्ञानं भवतीति, यथा भगवद्भिरुक्तं “सव्वाइं ठाणाइं असासयाइं" न कदाचिदस्मिन् व्यावर्णितलक्षणे लोके किञ्चित् स्थानमस्ति शाश्वतं यत्रात्यन्तिकी निवृत्तिरात्मनो भवतीत्याहपरलोकनिरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा
१०८
सूत्र-७
॥१०॥
नादौ संसार इत्यादिना बोधिदुर्लभत्वानुप्रेक्षां निरूपयति, अनादाविति सर्वकालावस्थायिनि संसारे, किं स्वरूपेण ?, नरकादिष्वित्याह, तेषु भवग्रहणेष्विति तेष्वेव नरक - तिर्यङ् - मनुष्या - ऽमरभवग्रहणेषु पुनः पुनः चक्र इव परिभ्रमतोऽनन्तकृत्वः, प्राणिन शारीरमानसैर्नानाप्रकारैदु:खैरालीढस्य तत्त्वार्था श्रद्धानाविरतिप्रमादकषायादिभिरुपहतमतेर्ज्ञानावरणाद्युदयाभिभूतस्य ज्ञानावरणादिकर्म्मचतुष्टयं घातिकर्म्म विशेषतो मोहनीयं सम्यग्दर्शनादिमार्गस्य विघातकमित्येतदेवाह सम्यग्दर्शनादिनेत्यादि, सम्यग्दर्शनविरत्यप्रमादाकषायविशुद्धो बोधिदुर्लभो भवतीति विभक्तिपरिणामेनाभिसम्बन्धनीयं, जन्तुना दुर्लभ इति, बोधिशब्देनात्र चारित्रमेव विवक्षितं, अथवा पाठान्तरं सम्यग्दर्शनादिरेव बोधि: अपगतसकलशङ्कादिदोषरहितो दुःखेन लभ्यत इति, एवं बोधेर्दुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा
॥११॥
स्वाख्यातधर्म्मानुप्रेक्षां प्रतिपादयन्नाह - सम्यग्दर्शनप्रतिष्ठामन्तरेण न महाव्रतादिलाभः समस्ति, प्रागेव सम्यग्दर्शनं द्वारभूतं धर्म्मानुष्ठानस्येति प्रतिपादयति सम्यग्दर्शनद्वारेण धर्मावगाह इति पञ्च महाव्रतानि साधनं यस्येत्यनेन समस्तमूलोत्तरगुणपरिग्रहः, आचारादीनि दृष्टिवादपर्यन्तानि द्वादशाङ्गानि, अर्हत्प्रणीत आगमः, तेनोपदिष्टं तत्त्वं यस्य धर्म्मस्य,