________________
सूत्र-८
૭૫
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાયदुःखहेतुत्वादवद्येन योग इति तदभिमतमेव जैनानां, तयोः प्रमत्तत्वात्, न चायमेकान्तः परदुःखोत्पादादाववश्यंतयाऽवद्येन भवितव्यम्, अकषायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पद्यते तद्व्युत्सृष्टशरीरस्य वा व्यपगतासुनो दर्शने, न च तदुःखनिमित्तमस्यापुण्यमापतति साधोः, द्रव्यमात्रवधे चागमानुसारिणो भिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेऽप्येकान्त इत्यन्याय्यं स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेऽप्यवद्येन योगः, क्वचित् परसुखोत्पत्त्यादेः पुण्यलेशयोगो निर्जरा वा, विहितानुष्ठायिनः साधोः क्षुत्पिपासातस्याधाकर्मादिदानेन एषणाविशुद्धेन प्रासुकानपानदानेन चेति, यच्चोक्तमग्निदृष्टान्तसामर्थ्याद्वध्योऽप्यवद्येन युज्येत वधक्रियासम्बन्धाद् हन्तृवत्, यथा ह्यग्निः पूर्वं स्वाश्रयं दहतीन्धनादिकमेवं वधक्रिया वध्यसम्बन्धिनी प्राक्तावद् वध्यमेवावद्येन योजयति, कर्मस्था च भिदेः क्रियेति वचनाद् यथा भिनत्ति कुशूलं देवदत्त इत्येवं हन्ति प्राणिनमिति, तदेतदसद्, यया क्रियया कर्तृसमवायिन्या कुशूलविदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता, तथा च यया कर्तृगतया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता, ज्वलनोऽप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव, एवं प्राणातिपातोऽपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः, अबुद्धिपूर्वकता च प्रमत्तता, तत्र कः प्रसङ्गो वध्यस्याधर्मेण ?, वधकसमवायिनी च हननक्रिया कर्तृफलदायिन्येव, प्रमत्तस्याध्यवसायो बन्धहेतुः, न च वध्यस्यात्महनने प्रमत्तताध्यवसायः, दृष्टान्तधर्मी चानेकधर्मा, तत्र कञ्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते, अथ समस्तधर्मविवक्षया दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः, विकल्पसमाना चेयं जातिरुपन्यस्ता वसुबन्धुवैधेयेन;