________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
स्वाश्रयदाहित्वमग्नेः विशेषधर्मोऽस्ति, न तु वधक्रियाया: स्वाश्रयेऽवद्ययोग इष्टः, तस्मान्नाग्निदृष्टान्तात् साध्यसिद्धिरिति । एतेनैतदपि प्रत्युक्तं परेण च कारयतो नाधर्मप्रसङ्गः, न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यत इति, यदप्यभिहितमचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः इति, इष्टमेवैतत् यतो येषां जीवानां काष्ठादि शरीरं तदा चाव्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा, यच्चोक्तं 'न च दृष्टान्तमात्रात् स्वपक्षसिद्धि' रिति, एतदप्ययुक्तम्, अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याग्निरुदाहृतः, प्रयोगस्तु-अजानानस्य प्राणवधक्रियाऽवद्यहेतुः प्रमत्तव्यापारनिर्वृत्तत्वात्, तृतीयविकल्पप्राणवधक्रियावदिति, यश्चावद्यहेतुर्न भवति स प्रमत्तव्यापारनिर्वृत्तोऽपि न भवति, यथा प्रथमविकल्प इति ॥
૭૬
सूत्र-८
यच्चाशङ्क्योक्तं ‘स्वरसभङ्गुरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्तिः स्वयमेव भवति, न परप्रयत्नेन विनाश्यते वायुः प्राणो, निर्हेतुकत्वान्नाशस्य, किं तर्हि ?, प्रयत्न: करोति ?, अनागतस्य क्षणस्योत्पत्ति प्रतिबध्नातीति, एतदप्यत्यन्तमयुक्तम्, अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्ध: ?, असत्त्वरूपत्वात्, खरश्रृङ्गस्येवातो नाभावः कर्तुं शक्यः, प्रतिबन्धाप्रतिबन्धौ च भावविषयौ, स्मर्त्तव्यं च तावत् प्राणातिपातलक्षणं स्वं सौगतेन, प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुः, न चाभावः प्राणी, न च प्राणिसङ्कल्पः तत्र हन्तुरिति, वैश्रसिकप्रायोगिकविनाशभेदाच्च न सर्व एव निष्कारणो नाशः, प्रागभूतात्मलाभादङ्कुरादिवत्, हेतुमत्त्वात्, तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः, यदा विनाशशब्देनावस्थान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टं ?, अथापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यं, एवमपि न विनाशस्य विनाशे किञ्चित् कारणमुपलभामहे, प्रष्टव्यश्च