________________
सूत्र-८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
७७ पूर्वपक्षवादी-निष्कारणो विनाशः किमसन्नुत नित्य इति, असत्वे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः, अथ नित्यो विनाशः कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात्, यच्चोक्तं 'कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते, नत्वन्यस्य, आत्मनोऽभावादि'ति, तदप्यसमीचीनं, यतः एकस्थितवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकस्थितश्चात्मा, सति तस्मिन् पुरुषार्थप्रतिपत्तिरिति, ननु चानुभवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धाः, तन्न, निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च, सन्तानाभ्युपगमे सर्वमुपपन्नमिति चेत्, न परमार्थतस्तस्यासत्त्वात्, न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणे विषयावधारणं शक्यं कर्तुं सञ्चिन्त्य परस्याभ्रान्तिमारणमिति, भिन्नाः सञ्चेतनादिक्षणा मारणावसानास्तत्र कस्य प्राणातिपातः ?, किं सञ्चेतयितुरथ यस्य परविज्ञानमुभयस्याभ्रान्तिः, अथ येन मारित इति, सर्वथा गृहीतशरणत्रया अप्यशरणा एव सौगताः, इत्येवं विचार्यमाणं सुगतशासनं निःसारत्वान्न युक्ति क्षमत इति ॥ प्रकृतमुच्यते
व्यवस्थितमिदं-प्रमत्त एव हिंसको नाप्रमत्त इति । सामान्येन कर्तृनिर्देशः यः कश्चित् प्रमत्त इति, कर्तुश्च करणान्यभिन्नानि भिन्नानि च द्विप्रकाराणि, तत्र योगेन्द्रियवीर्यज्ञानकरणान्यभेदेन वर्तन्ते, गमने निर्वत्यै पादवत्, कृपाणदात्रासिधेनुकादीनि भेदेन व्यवस्थितानि, करणकारकाविनाभूता च कर्तृशक्तिरित्यभिन्नाः कायादयः करणत्वेन निर्दय॑न्ते, कृतद्वन्द्वाः कायादयस्तेषां योगस्त एव वा योगः, यथैव ह्यात्मा कायादिभिर्युक्तस्तथा कायादिक्रिययाऽपीति, अतस्तद्व्यापारोऽपि योगः, युज्यतेऽसावात्मनेति योगः, सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः, कर्तुरात्मनः तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामो योगः कायादिचेष्टा, यथाऽऽह