________________
७८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
"जोगो विरिअं थामो उच्छाह परक्कमो तहा चेट्ठा ।
सत्ती सामत्थं ति अ जोगस्स हवंति पज्जाया ॥१॥" (पञ्चसंग्रह, गाथा - ३९६)
तथा अपर आह
मनसा वाचा कायेन चापि युक्तस्य वीर्यपरिणामः । जीवप्रयोगजनितः स योगसंज्ञो जिनैर्दृष्टः ॥ १॥
સૂત્ર-૮
कायः शरीरमौदारिकादिभेदपुद्गलजालात्मप्रयोगनिर्वृत्तं, प्रधानातिशयोपकारितया साधकतमत्वात् करणम्, एतदवष्टम्भात् कर्त्तात्मा गमनवल्गनलङ्घनावरोहणकूर्दनास्फोटनविशसनादिक्रियाः परिनिष्पादयति,
-
वागपि वाक्पर्याप्तिगृहीतभाषावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा क्वचिद् अभिलक्षितवर्णविवेकात्मनोऽभिलषणीयपदार्थप्रकाशेन साधकतमत्वात् करणतया व्याप्रियते, मनोऽपि मनोवर्गणायोग्यस्कन्धाभिनिर्वृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं मनने साधकतमत्वात् करणमात्मनः, एवमेभिः कायवाङ्मनोयोगैः समुदितैर्द्वाभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम् - आत्मनः पृथक्करणमाचरति यो द्रव्यभावाभ्यां भावतो वाऽपि प्रमत्तः सा हिंसेति, समुदिताश्च प्रतीता एव निर्वर्त्तकाः, प्रत्येकं तु कथं निर्वर्त्तकाः प्राणातिपातावद्यस्येति, भाव्यते - भूदकतेजोमारुतवनस्पतीनां काययोगः एवैकः स्पर्शनाख्यं चेन्द्रियमेकमेव, नतु वाङ्मनोयोगौ स्तः, तेषां च कायव्यापारजनित एव प्राणातिपातः, द्वित्रिचतुरिन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च कायवाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां स्पर्शनरसनघ्राणानि त्रीन्द्रियाणां स्पर्शनरसनघ्राणचक्षूंषि चतुरिन्द्रियाणां असंज्ञिनां पञ्चापीति, सर्वेषामन्तःकरणं नास्ति द्रव्यरूपमेकेन्द्रियादीनां भावमनस्तु विद्यत एवात्मस्वभावत्वात्, तच्च द्रव्यरूपमन्तःकरणमन्तरेणास्पष्टमपटु पटलावृतनेत्रवत्, संज्ञिपञ्चेन्द्रियाणामन्तःकरणसहितानि पञ्चापीन्द्रियाणि विद्यन्ते, पट्वी चैषां प्रज्ञा, कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताद्यनुतिष्ठन्ति प्रकर्षतोऽ प्रतिष्ठाननरकगमनयोग्यं, असंज्ञिपञ्चेन्द्रियास्तु मनोरहितत्वात् प्रथम