________________
सूत्र-८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
७८ पृथिवीनरकगमनयोग्यमेव प्रकर्षतो निवर्तयन्ति, एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नैवोपाददते, ते हि नरकगतिवर्षं संसारपरिभ्रमणयोग्यमेवावा निवर्तयन्ति, कायवाङ्योगिनः काययोगिनश्च कषायविशेषापेक्षमप्रकृष्टं, फलस्य च प्रकर्षापकर्षोऽन्तःकरणकषायापेक्षौ, संज्ञिपञ्चेन्द्रियाणामारम्भहननव्यापादितकालभेदेन प्राक् प्रतिपादितो तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेष (अ.६ सू.७) इत्यत्र सूत्रे, क्वचित् कायादित्रयसन्निधानेऽप्यन्यतमस्यैव व्यापारस्तन्दुलमत्स्यस्य मनोव्यापार एव केवलः, क्वचित् वाङ्मनोव्यापारात् प्राणातिपातावद्यं, यथा'वर्ष देव ! कुणालायां, दश दिवसानि पञ्च च। मुशलस्थूलधाराभिर्यथा रात्रौ तथा दिवा ॥१॥'
अत्रात्यन्त●राशयाभ्यां श्रमणकाभ्यां लोककदर्थनामसहमानाभ्यां कष्टतपःसमावर्जितदेवतया तद्वचनाभिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजङ्गमानां प्राणिनां गन्धोऽपि नासीदिति । स एष प्राणातिपातः प्रमत्तयोगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः सङ्क्षपादवसेयः, रागप्रवृत्तिकस्तावच्चमरकरिदशनचित्रकचर्ममांसाद्यर्थो मृगयादिक्रीडार्थो वा स्वजीवितमित्रादिपरिरक्षणाय वा, मायालोभौ च रागः, द्वेषजो, वैरनिर्यातनादिकः परशुरामसुभूमादेरिव, क्रोधमानौ च द्वेषः, अज्ञानजो याज्ञिकानां पश्वादिविशसने स्वर्गमिच्छताम्, अवनिपतीनां च दुष्टपरिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनामप्रेक्षापूर्वकारिभिर्यदेकैरुत्फाल्यमानानां तस्करपारदारिकाद्युल्लम्बनशूलिकादिभेदककचपाटनच्छेदनादिकः, तथा संसारमोचकानां धर्मबुद्ध्या संसारात् प्राणिनो मोचयतां परोपघातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधात् किल पुण्यावाप्तिरिति प्रवृत्तानां, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्था इति तद्हनने नास्ति दोष इत्येवंप्रवृत्तानामशेषमेव मोहविजृम्भितमिति ॥