________________
७४
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૮ नाग्निप्रवेशादिभिः, तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किञ्चित् परग्रहणमपीति । एवं सति क्वचिद्भावत एव प्राणातिपातावद्यमप्रतिष्ठाननरकगामितन्दुलमत्स्यस्येव, क्वचिद् द्रव्यभावाभ्यां प्राणातिपातावद्यं सिंहमारकस्येवेति, प्रमादश्च द्वयोरपि विकल्पयोरस्त्येवाज्ञानादिलक्षणः, ततश्च प्रमत्तव्यापारेण परदारदर्शने स्पर्शने वा भवत्येवावद्यम्, अप्रमत्तस्य त्वागमानुसारिणो न भवति, यत आगम:
"हत्थपायपलिच्छिन्नं, कन्ननासविकप्पितं । अवि वाससति णारिं, 'दूरतो परिवज्जए ॥१॥ चित्तभित्तिं ण णिज्झाए, णारिं वा सुअलंकियं । भक्खरंपिव दट्टणं, दिट्टि पडिसमाहरे ॥२॥ तस्मादेनःपदमेतत् वसुबन्धोरामिषगृद्धस्य गृघ्रस्येवाप्रेक्ष्यकारिणः अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्त:-शिरोलुञ्चनाद्युपदेशे शास्तुः कुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासम्भवोऽत्यन्तमेव शासितरि, ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरणोपायत्वेन तपो देशितं कुतोऽवद्यप्राप्तिरप्रमत्तस्येति, अन्नदाय्यपि श्रद्धाशक्त्यादिगुणसमन्वितोऽप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधूद्देशेनाकृताकारिताननुमतं, ग्रहीताऽप्यागमानुवृत्त्या गृह्णाति, कुतस्तत्रावद्येन योगोऽन्नदायिनो ?, दानकाल एव च कर्मनिर्जरणादिफलाभिनिवृत्तेः, विसूचिका तु भोक्तुराप्तविहिताचारपरिमितादिभोजिनो जन्मान्तरोपात्ताशुभकर्मापेक्षा न दातुर्दोषमावहति, विहिताऽऽचारोल्लङ्घनभोजिनोऽपि स्वकृतकर्मविपाक एवासाविति नास्त्यणीयानपि दातुरप्रमत्तत्वाद्दोषः, अज्ञानं विसूचिकायाः प्रमाद इति चेद्दात्रा स्वान्नस्य दानकाल एव त्यक्तत्वात्, परिगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति, यच्चावाचि-मातुर्गर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयो१. बंभयारी विवज्जए । इति दशवैकालिके ।