________________
सूत्र-८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ असञ्चिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्यादृष्टेरभावः सुगतशिष्याणां, यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति सञ्चिन्त्य, अथैवं मन्येथाः-तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुद्ध्या दन्दशूकं कल्पयतः कथं न हिंसा?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य सञ्चेतना स्यान्मिथ्यादर्शनमेतदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति, अथ संशयहेतुत्वान्मिथ्यादर्शनमवद्यकारणम्, एवं तर्हि निश्चितधियः साङ्ख्यादेरिदमेव तत्त्वमिति नावचं स्यात्, संसारमोचकगलकर्त्तकयाज्ञिकप्रभृतीनां च प्राणवधकारिणां धर्म इत्येवं सञ्चेतयतामधर्मोऽयमित्येवं चासञ्चेतयतां नावद्यं स्यादन्याभिसन्धित्वात्, अथैवं मन्वीथाः-सञ्चेतयन्त्येव ते प्राणिनो वयं हनामेति, सत्यमेतत्, किन्तु नैवं चित्तोत्पादो हन्यमानेष्वेतेष्वधर्मो भवतीति, संविद्रते च स्फुटमेव सौगताः प्रमादारम्भयोरवश्यंभावी प्राणवध इति, तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवमविज्ञाय तेषामवीचिनरकगमनकारणमानन्तर्यकमबुद्धित्वादेव न स्यात्, इष्यते चानन्तर्यकम्, अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासञ्चेतयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात्; यतस्ते विदन्त्यार्हतानामवनिदहनपवनजलवनस्पतयः प्राणिनः, अथैवमारेकसे बुद्धोऽयमिति संज्ञानमात्रेण साङ्ख्यादिरपि चेतयत्येव, एवं तर्हि संज्ञामात्रेण सञ्चेतयतः कल्पाकारमपि शुद्धनामानं घ्नत आनन्तर्यकं स्यात्, तथा मातापित्रर्हद्वधस्तूपभेदानन्तर्येष्वपि योज्यं, बालस्य किल पांसूनेव चेतयतोऽन्नमित्येवं वा चेतयतो [यास्तानवचेतयतो] बुद्धाय भिक्षादानोद्यतस्य पांसुपुष्टी राज्यं फलत इति सुगतशासनविदां प्रतीतमेव, तदेवमसञ्चेतितवधो भ्रान्तिवधश्च प्राणातिपातावद्यहेतुतया ग्राह्यो, अन्यथा बहु त्रुट्यति बुद्धभाषितमिति, तथाऽऽत्मवधोऽपि जैनानामवद्यहेतुरेव, विहितमरणोपायाहते शस्त्रोल्लम्ब