________________
७२
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૮ स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवान्नाबुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति, अत्रोच्यते जैनैः-प्राणातिपाताद्यवद्येन प्रमत्त एव युज्यते, प्रमत्तश्च नियमेन रागद्वेषमोहवृत्तिः, प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यं, कषायग्रहणेन च मोहनीयकम्र्मांशो, मिथ्यात्वदर्शनमपि संशयिताभिगृहीतानभिगृहीतादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियासवप्रमादेष्वप्यन्वयिनौ, निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभावस्तदाकुलितचित्तो मूढ इत्युच्यते, रागद्वेषमोहाश्चात्मनः परिणामविशेषाः प्राणातिपाताद्यवद्यहेतवः सर्वैर्मोक्षवादिभिरविगानेनाभ्युपेयन्ते, सिद्धान्तविधिना च परित्यागाकरणं शरीरादेर्ममत्वीकृतस्याविरतिः-अनिवृत्तिरात्मनः परिणतिविशेषः, साऽपि प्राणातिपाताद्यवद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु, अतीतकालपरिभुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण न त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जीवास्नायुशरवाजकीचकशलाकाद्याकारेण परिणतानि प्राणिनां परितापमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुरवद्येन योगमापादयन्ति, प्रतीतं चैतल्लोके, यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपरित्यजतः, नन्वनयैव युक्त्या अवद्यक्षयहेतवः शरीरादिपुद्गलाः निर्जराहेतवः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवं, अवद्यमविरतिहेतुकं, निर्जरा तु विरतिहेतुकैव, पुण्यं च विरतिहेतुकमेव भूयसा, न हि पापाश्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति, एषाप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति ॥
प्रमत्तयोगाच्च प्राणातिपाताधवद्यमिति व्यवस्थिते यदुच्यते परेण 'असञ्चिन्त्य भ्रान्त्या वा मारणं नावद्यहेतुक'मित्यत्र प्रतिविधीयते