________________
સૂત્ર-૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ द्विविधं मारणं-सञ्चिन्त्य असञ्चिन्त्य च, सञ्चिन्त्यापि द्विविधं भ्रान्तस्याभ्रान्तस्य च, अभ्रान्तस्यापि द्विविधं-आत्मनः परस्य चेत्यतो विशेषणत्रयमुपादीयते, एतदुक्तं भवति-यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति, तमेव मारयति, नान्यं भ्रमित्वा, इयता प्राणातिपातो भवति, यस्तर्हि संशयितो मारयति प्राणी न प्राणी ? स वाऽन्यो वेति, सोऽप्यवश्यमेव निश्चयं लब्ध्वा तत्र प्रहरति, योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति, ततश्चासञ्चिन्त्य योऽत्र घातः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः, प्राणश्च वायुः कायचित्तसंमिश्रश्च प्रवर्त्तते, चित्तप्रतिबद्धवृत्तित्वात्, तमतिपातयतिविनाशयति, जातस्य स्वरसस्य सन्निरोधादनागतस्योत्पत्तिं प्रतिबध्नातीति, जीवितेन्द्रियं वा प्राणः, कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते, नत्वन्यस्य, आत्मनोऽभावात्, न ह्यात्मनः किञ्चित् प्रतिपादकं प्रमाणमस्तीति ॥
अन्यस्त्वाहआयुरुष्माऽथ विज्ञानं, यदा कायं जहत्यमी । अपविद्धस्तदा शेते, यथा काष्ठमचेतनम् ॥१॥ इति, आर्हताः पुनरबुद्धिपूर्वकमसञ्चिन्त्यापि कृतं प्राणातिपातं प्रतिजानते, अबुद्धिपूर्वादपि प्राणवधात् कर्तुरधर्मो, यथाऽग्निस्पर्शादाह इति, तेषां चैवमभ्युपेयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः, साधुशिरोलुञ्चने कष्टतपोदेशने च शास्तुः क्रुद्धस्येवाधर्मप्रसङ्गः, विशूचिकामरणे चान्नदायिनः प्राणवधः, मातृगर्भस्थयोश्चान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादग्निस्वाश्रयदाहवदधर्मप्रसङ्गः, परेण च कारयतो नाधर्मप्रसङ्गः, न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते, अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः, न च दृष्टान्तमात्रात्