________________
७०
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૮ पिपीलिकादेरुपरि पादं न्यस्यति व्युत्क्रान्तप्राणश्च प्राणी भवति तदाऽस्य द्रव्यप्राणव्यपरोपणमात्रादत्यन्तशुद्धाशयस्य शक्यपरिजिहीर्षोविमलचेतसो नास्ति हिंसकत्वं, कदाचिद्भावतः प्राणातिपातो न द्रव्यतः, कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य शरपातस्थानादपेते सारंगे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणेषु भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतदृढायुष्ककर्मशेषादपसृतो मृगः पुरुषकाराच्च, चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकं, तथा अन्यस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमूहिते विकल्पत्रये प्रमत्तयोगत्वं द्वितीयतृतीयविकल्पयोरतस्तयोरेव हिंसकत्वं, न प्रथमस्येति ।
अपरे तु प्रमादमष्टविधं वर्णयन्ति"अज्ञानं संशयश्चैव, मिथ्याऽज्ञानं तथैव च । रागो द्वेषोऽनवस्थानं, स्मृतेर्धर्मेष्वनादरः ॥१॥ योगदुष्प्रणिधानं च, प्रमादोऽष्टविधः स्मृतः । तेन योगात् प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा ॥२॥"
अपरे तु ब्रुवते-'अप्रयत्नासमितः प्रमत्तः', प्रयत्नो द्विविधःजीवाजीवपदार्थपरिज्ञानमीर्यादिसमितिपञ्चकं चेति, एतद्विरहितः प्रमत्त उच्यते, सूत्रकारेण तु प्रमत्तयोगादित्येवमभिदधता सर्वमेवैतत् प्रमत्तलक्षणं समग्राहीति, स्यादेतद्-अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणत्वात्, मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादो, यदि च व्यापादितः स्यात्, सर्वं चेदमुपपन्नं तृतीये, द्वितीयविकल्पे तु नास्ति एतत् समस्तमतः कथं तत्र हिंसकत्वम् ?, एतदेव च प्राणातिपातलक्षणमपरेण स्पष्टतरं प्रपञ्चितं-'प्राणातिपातः सञ्चिन्त्य, परस्याभ्रान्तमारण'मिति,