________________
६८
सूत्र-८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ प्रमत्तयोगात् प्राणव्यपरोपणमात्मैव हिंसां निवर्तत इत्यर्थः, अथवाऽधिकरणे चोपसङ्ख्यानं आसने उपविश्य प्रेक्षते आसनात् प्रेक्षते, एवं प्रमत्तं प्रमादस्तत्र प्रमादे स्थित्वा प्राणव्यपरोपणमाचरन्नात्मा हिंसां निवर्तयतीति पञ्चमी प्रयुज्यते, 'गत्यर्थाकर्मक' (पाणि० अ.३ पा.४ सू.७२) इत्यत्र 'भावकर्मणोः' (पाणि० अ.१ पा.३ सू.१३) इत्यनुवर्तते, तत्र वा क्तप्रत्ययः, प्रमत्तं प्रमादस्तेन च प्रमादेन योगः-सम्बन्धस्तदाकारपरिणतिनरात्मनः । ततश्च गुणहेतावस्त्रीलिङ्गे विभाषया पञ्चमी विभक्तिर्भवति, जाड्याद्बद्ध इति यथा, एवं प्रमत्तयोगात्प्रमादसम्बन्धात् प्राणव्यपरोपणमिति, प्राणाः पञ्चेन्द्रियाण्यायुष्ककर्म कायो वाङ् मनः प्राणापानौ चेति दशधा द्रव्यपरिणामलक्षणाः पृथिव्यादिकायेषु यथासम्भवमवस्थिताः तेषां व्यपरोपणं-अपनयनमात्मनः पृथक्करणं, यया चात्मपरिणतिक्रियया तद् व्यपरोपणं निष्पद्यते सा क्रिया कर्तृसमवायिनी हिंसेत्युच्यते, एनमेव च सूत्रार्थं भाष्येण स्पष्टयन्नाह'प्रमत्तो य'इत्यादिना प्रमत्त इति प्रमत्त एव हिंसको, नाप्रमत्त इति प्रतिपादयति, प्रमत्तो हि आप्तप्रणीतागमनिरपेक्षो दूरोत्सारितपारमर्षसूत्रोपदेशः, स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यंतया करोति, द्रव्यभावभेदद्वयानुपातिनी च हिंसा, तत्र कदाचिद्र्व्यतः प्राणातिपातो न भावतः, [कदाचिद् भावतः प्राणातिपातो न द्रव्यतः, कदाचिद् भावतो द्रव्यतश्च प्राणातिपातः, कदाचिद् न भावतो न द्रव्यतः प्राणातिपातः ।] स्वपरिणामनिमित्ते च हिंसाहिसे परमार्थतः, परिणामो मलीमसोऽवदातश्च, परस्तु कञ्चिनिमित्तमात्रमाश्रित्य कारणीभवति हिंसायाः, स च द्रव्यतो व्यापन्नो न व्यापन्न इति नातीवोपयोगिनी चिन्ता, तत्र यदा ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः काञ्चिद्धां क्रियां अधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुमसमर्थः