________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
सूत्र-८ सानी व्याण्याप्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥७-८॥ સૂત્રાર્થ– પ્રમાદના યોગથી(=સંબંધથી) પ્રાણવિયોગ એ હિંસા છે. (७-८)
भाष्यं- प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा। हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनर्थान्तरम् ॥७-८॥
ભાષ્યાર્થ– જે પ્રમત્તજીવ કાય-વચન-મનરૂપ યોગોથી પ્રાણોનું વ્યપરોપણ કરે છે તે હિંસા છે.
હિંસા, મારણ, પ્રાણાતિપાત, પ્રાણવધ, દેહાંતરસંક્રામણ અને प्राव्यपरो५९॥ होनी मे ४ अर्थ छे. (७-८)
टीका- प्रमाद्यतीति प्रमत्तः कषायविकथेन्द्रियनिद्रासनिमित्तभूतैः, तत्र कषायाः षोडशानन्तानुबन्ध्यादिभेदास्तत्परिणत आत्मा प्रमत्तः, इन्द्रियाणि-स्पर्शनादीनि तद्द्वारको रागद्वेषौ, समासादिततत्परिणतिश्च प्रमत्तः, स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः, प्रमादश्च आत्मनः परिणामः कषायादिनिमित्तः, दर्शनावरणकर्मोदयात् स्वापौ निद्रापञ्चप्रकारा तत्परिणामाच्च पीतहृत्पूरपित्तोदयाकुलितान्तःकरणपुरुषवद् व्यामूढः करचरणविक्षेपशरीरपर्यवसानक्रियाः कुर्वन् प्रमत्तः, मद्यं-मधुवारशीधुमदिरादि तदभ्यवहारे सत्यागतमूर्छ इव विह्वलतामुपेतः प्रमत्तोऽभिधीयते, विकथाः स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धाः, रागद्वेषाविष्टचेताः स्त्र्यादिविकथापरिणतः प्रमत्तः, प्रमत्तस्य योगः, कर्तरि षष्ठी, योगपरिणामं विशिनष्टि-योगः व्यापारश्चेष्टा, प्रमत्तस्यात्मनश्चेष्टेत्यर्थः, प्रमत्तयोगादिति पञ्चमी तृतीयार्थे द्रष्टव्या, प्रमत्तयोगेन-प्रमत्तव्यापारेण यत् प्राणव्यपरोपणं, अथवा पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानं, प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षत इति, एवं प्रमत्तयोगं प्राप्य प्राणव्यपरोपणं कुर्वन्नात्मा हिंसां निवर्तयति,