________________
પર
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૬
शारीरमानसदुःखाभिभूताः तेषामनुग्रहः कारुण्यं घृणा दयेति पर्यायाः तदिति तत् कारुण्यं भावयेत् स्वक्षेत्रे, तत्क्षेत्रमाह-महामोहो-मिथ्यादर्शनानन्तानुबन्ध्यादिः तेनाभिभूतेषु-वशीकृतेषु, अत एव च मतिश्रुतविभङ्गाज्ञानपरिगतेष्वित्याह, मतिश्रुतविभङ्गाज्ञानान्युक्तलक्षणानि प्रथमे, तत्परिगतेषु-तदाकारपरिणतेषु, विषयाः-शब्दादयस्तेषु तर्षो विषयतर्षः, पिपासेति, तर्ष इवाग्निः परितापकारित्वात् तेन दन्दह्यमानचित्तेषु, न खलु विषयासेविनः कदाचित्तृप्यन्ति, स्थविरावस्थायामपि काङ्क्षासद्भावाद्, एवंविधावस्थेषु हितमित्यादि, हितं-मुक्तिसाधनम् अहितंसंसारसाधनं तयोः प्राप्तिपरिहारौ तत्र विपरीता प्रवृत्तिर्येषां, हितं परिहरन्ति अहितं आसेवन्ते तेषु विविधम्-अनेकप्रकारमैहिकामुष्मिकभेदं शरीरमनोविषयं दुःखं, तेनादितेषु-हिंस्यमानेषु । दैन्यसम्बन्धाद् दीना:अतिहीनयाञ्चायुक्ताः । कृपणा:-उत्सन्नान्वयाः । अनाथा:-अबान्धवाः केनचिदपि अगृहीताः स्वयं चासमर्थाः । बाला:-शिशवः । मोमुहाःकाहलाः । वृद्धाः-सप्ततिसंवत्सरसङ्ख्यामतीत्य वर्तमानाः । तेषु कारुण्यमविच्छिन्नं भावयेत् । तथाहीत्यादि, तथा च भावयन् उक्तेन प्रकारेण हितोपदेशादिभिरिति, हितोपदेशो-मुक्तिसाधनसम्बन्धः, आदिशब्दाद्देशकालापेक्षान्नपानप्रतिश्रयकर्पटभैषजैरपि तान् अनुगृह्णातीति । माध्यस्थ्यमविनेयेष्वित्यादि व्याचष्टे, रागद्वेषयोरन्तरालं मध्यं तत्र स्थितो मध्यस्थ:-रागद्वेषेष्ववृत्तिरिति, तद्भावो माध्यस्थ्यम् । अरक्तद्विष्ट उदासीनस्तद्भाव औदासीन्यं, उपेक्षेति ईक्षणमालोचनं, सामीप्येन अरक्तद्विष्टतया अरागवृत्तिता अद्वेषवृत्तिता, वोपेक्षेत्येकार्थाभिधायिनः शब्दाः, अविनेयानामिति विनीयन्ते-शिक्षां ग्राहयितुं शक्यन्त इति विनेयाः न तथा अविनेयाः-अशिक्षार्हाः । प्रकृष्टमिथ्यादर्शनावगृहीतचित्ताः पूर्वव्युद्ग्राहिताश्चाविनेया इति, मृत्पिण्डकाष्ठकुड्यानीव मृत्पिण्डकाष्ठकुड्यभूताः, यथा मृत्पिण्डादयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या