________________
सूत्र-8
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ टीका- एतद् व्याचष्टे-कृतद्वन्द्वानां द्वितीयया निर्देशः मैत्र्यादीन् भावयेद्यथासङ्ख्यं, मैत्री सत्त्वेषु प्रमोदं गुणाधिकेषु एवमन्यत्रापि योज्यं, मैत्री-सर्वसत्त्वविषयस्नेहपरिणामः, येऽपि कृतापकाराः प्राणिनस्तेष्वपि मित्रतां चेतसि सन्निवेश्य क्षमेऽहमिति सर्वसत्त्वानां सम्यग्-मनोवाक्कायैर्येषां च मयाऽपकारः कृतस्तानपि सत्त्वान् क्षमयेऽहं, क्षमां ग्राहयामीत्यर्थः, तत्र परः क्षमते वा न वा (परं स्वचेतसः कालुष्यमपनेयम्) इति वेति, एतदेव स्पष्टतरं विवृणोति-'मैत्री मे सर्वसत्त्वेषु वैरं मे न केनचिद्' वीराणामिदं कर्म वैरं, पुनः पुनः पानककरणमित्यर्थः । प्रमोदो गुणाधिकेषु एतद् व्याचष्टे-'प्रमोदो नामे'ति सम्यक्त्वादिगुणाधिकेषु प्रमोदो-हर्षस्तं भावयेत्, नामशब्दो वाक्यालङ्कारार्थः, अलङ्कारः श्रोत्रसुखत्वं, विनीयतेऽनेन कम्र्मेति विनयः-ज्ञानदर्शनचरणोपचारभेदक्रियाविशेषः, विनयहेतुर्वन्दनं-प्रद्वैमनोवाक्कायैः विशेषत उत्तमाङ्गेन, स्तुतिः-सद्भूतगुणोत्कीर्तनरूपा, वर्णवादो-यशःप्रख्यापनं, वैयावृत्त्यं-व्यापृतता बालग्लानगुरूपवासिशैक्षप्राघूर्णकान् उद्दिश्य आगमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमार्गणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं-करणं, आदिशब्दाद्देशकालापेक्षः साधूद्देशेन अनेकप्रकारः पूजाहेतुः सङ्गृहीतः, सम्यक्त्वं-तत्त्वार्थश्रद्धानलक्षणं ज्ञानं-हिताहितावबोधकारि चारित्रं-मूलोत्तरगुणरूपं तपोबाह्याभ्यन्तरविधानं एभिः सम्यक्त्वादिभिरधिकाः साधवो गृहस्थादिभ्यः तेषु परेणात्मना उभाभ्यां वा कृता या वन्दनादिलक्षणा पूजा तया जनितः-उत्पादितः 'सर्वेन्द्रियाभिव्यक्त' इति सर्वग्रहणं सम्भवापेक्षं साधुगुणोत्कीर्तनसमये चित्तकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाञ्चतनुत्वं यत् स मनःप्रहर्षः प्रमोद इत्याख्यायते । कारुण्यमित्यादि करुणा-अनुकम्पा तद्भावः कारुण्यं, कः पुनरस्य विषयः ?, क्लिश्यमानेष्वित्याह-क्लिश्यमानेषु-उपतापमनुभवत्सु, दीना-दुःखिताः