________________
४४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૫ परमार्थतः दुःखं, तत्र सुखाभिमानो मूढस्याज्ञस्य, दृष्टान्तं व्याचष्टेतद्यथेति कामसुखं दुःखमेवेति ख्याप्यते, तीव्रयेत्यादि तीव्रा इति परां काष्ठां गता त्वक्-चर्म शोणितम्-असृक् मांसं-पिशितं गता-प्राप्ता, तयैवंविधया कण्ड्वा परिगतात्मा-व्याप्तशरीरः काष्ठादिकण्डूयनक्रियायाः कारणं नानारूपमुपदिशति, काष्ठशकलं-काष्ठखण्डं लोष्टः-इष्टकादिखण्डं शर्करा-शर्कराटङ्कः नखशुक्तयो-नखमुखानि, प्रदर्शनमात्रमेतत्, एभिः काष्ठशकलादिभिर्विच्छिन्नगात्र इति विदारितगात्रः, ततश्च श्रवता रुधिरेणार्द्रः कण्डूयमानः एवंविधाऽवस्थो दुःखमेव सुखमिति मन्यते मोहात्, तद्वत् मैथुनोपसेवीति, अनेन साम्यतामापादयति दृष्टान्तेन सह, ततश्च दुःखभावनावासितचेतसो मैथुनाद्व्युपरमः श्रेयानिति ।। __ यथा प्राणातिपातादयो दुःखं तथा परिग्रहोऽपीति प्रतिपादयति, परिग्रहः-सचित्तादिभेदो ममत्वसम्बन्धः, अप्राप्त्यादीनि त्रीण्यपि परिग्रहविशेषणतयोपात्तानि, तेषु काङ्क्षा-अभिलाषोऽर्जनम्-उपादाने प्रयत्नः, स च दुःखं खेदकारित्वात्, प्राप्तेषु च परिग्रहेषु नष्टेष्विति, नृपदहनतस्करदायादमूषिकादिभ्यो नष्टेषु शोकः, स च दुःखं, तथा 'प्राप्तेषु रक्षण'मिति प्राप्तेषु-स्वीकृतेषु रक्षणं परिपालनं, उपभोग इति आहारादिकः तत्र अवितृप्तिः-अतृप्तिता तत्रापि महदुःखं, अतः परिग्रहाद्व्युपरमः श्रेयानित्येवं भावयेत्, परिग्रहेष्वप्राप्त्यादिका वृत्तिर्न तु सूत्राणि ॥७-५॥
दीर्थ- वा २०४नी वि५ अर्थ. छे. पाय-अवशनने वियारे. અથવા દુઃખરૂપ જ છે એમ વિચારે. (અથવા) વા શબ્દનો સમુચ્ચય અર્થ छ. दु:५३५ ४ छ मेम वियारे भने मायावधशनने वियारे. एव કારનું ગ્રહણ કર્યું હોવાથી સુખલવની ગંધ પણ નથી એમ જણાવે છે. હિંસાદિ કેવળ દુઃખરૂપ જ છે, સુખરૂપ નથી.
मा ४ अर्थने भाष्यथा “दुःखमेव च" इत्याहिथी स्पष्ट ४३ छ.